This page has been fully proofread once and needs a second look.

साहित्यकण्टकोद्धारः
 
अथ कथम् -
 
--
(सुवर्णपुङ्खाः सुदृढाः सुतीक्ष्णा वज्रोपमा वायुसमानवेगाः ।

यावन्न गृह्णन्ति शिरांसि बाणा:) प्रदीयतां दाशरथाय मैथिली ॥

( हनुमन्नाटके ७-८)
 

 
इति प्रयोगः । अत्र दशरथस्यापत्यमिति विग्रहे अत <flag>इञ</flag> (४-१-६५ ) इति

सूत्रेण इञ्प्रत्ययप्राप्तेः ( दाशरथये इति भवितव्यम्) इति चेत् -- अना--अत्राहुः (।[^114
]
अपत्यरूपविशेषस्याविवक्षायां शैषिकोऽण्प्रत्ययो भविष्यतीति ।
 

 
अथ कथम् --
 
29
 
--
दाक्षायणीमुखसरोरुहकर्णिकायाम्
इति ।
दाक्षायणी श्रीरिव निर्बभासे
 
इति
इति च
इति च ।
 
115,
 

 
अत्र दक्षस्य साक्षादपत्यं स्त्रीति विग्रहे अत इञि (४-१-१५) इतिसूत्रेण इञि

दाक्षिरिति स्यात् -- --इति चेत् -- --अत्र दक्षस्यापत्यं दाक्षायणीति अपत्ये गोत्रत्वोप-

चारात् गोत्रे कुञ्जादिभ्यः (४-१-६८) इतिसूत्रेण <flag>फञ </flag>प्रत्यये जातेरस्त्री-

विषयादयोपधात् (४-१-६३) इति <flag>ङोषि</flag> च स्त्रीप्रत्यये [^115 ]रूपमित्याहुः । अन्ये तु

दक्षस्यापत्यं दाक्षिः । अत <flag>इञ</flag> (४-१-१५) । ततः आसुरेरुपसंख्यानम् वार्त्तिके

(४-१-१ सूत्रस्थे) आसुरि -दाक्ष्योरुपसंख्यानमित्युपसंख्यानाद् [^116] दाक्षायणीति

भवतीति वदन्ति । अपरे तु दक्षम् अयते प्राप्नोतीति विग्रहे अय गताविति धातोः

ल्युटि प्रज्ञादित्वात् ""[^117] (५-४-३८) अणि रूपमित्याहुः ।
 
117.
 

 
वस्तुतस्तु दक्षस्यापत्यं स्त्री दाक्षिः । ततो वा नामधेयस्य वृद्धसंज्ञा वाच्या [^118
]
इति वार्त्तिकेण वृद्धसंज्ञायाम् उदीचां वृद्धादगोत्रात् (४-१-१५७) इतिसूत्रेण फिञ्ञ्

इति प्रत्यये रूपमिति भाष्यमन्थनकर्तारः । [^119
 
]
 
अथ कथम् --
 

ऐक्ष्वाकेषु च मैथिलेषु च फलन्त्वस्माकमद्याशिषः
 

(अनर्घराघवे ३-५७)
 

 
[^
114]. See Praudhamanoramā on Ata iftñ ( 4.1.95).
 

Pradiīyatām dāśarathaāya maithiliī is also quoted in the Käāsikäā on 4.1.95.

 
[^115].
To whom is this reference is not clear.
 
115.
 

 
[^
116.
 
]. I do not find the inclusion of dākşi in the sources available to me.

 
[^117].
Nyāsakāra notes : prajñādir ayam ākrtiganaṇaḥ.
 
[^118]. See t
h.
 
117.
 
118.
e See the S.K. on
 
1.1.75 (en prācām dese).
 

 
[^
119]. This is reference to Bhattṭṭoji. See also Notes 35, and 99.

See the P.M. on 4.1.157.