This page has been fully proofread once and needs a second look.

अथ कथम् --
येनापविद्धसलिस्फुटनागसद्मा
देवासुरैरमृतमम्बुनिधिर्ममन्थे
(किरात-५-३०) इति भारविः । अत्र देवाश्चासुराश्चेति द्वन्द्वे येषां च विरोधः
शाश्वतिकः (२-४-९) इतिसूत्रेण एकवद्भावः स्यादिति चेत्--अत्राहुः । एतेषां
कार्यार्थ एव विरोधो न गोव्याघ्रादिवत्[^113] शाश्वतिक इति ।
 
अथ कथम् --
भयस्य पूर्वावतरस्तरस्विना मनस्सु येन द्युसदां न्यधीयत
(माघकाव्ये १-४३ )
 
इति माघः । द्युसदामित्यत्र तत्पुरुषे कृति बहुलम् (६-३-१४) इतिसूत्रेण
आदितेया दिविषदः (अमरकोशे ) इत्यत्रेव अलुगापत्तेरिति चेत्-- सत्यम् ।
अस्मिन्नेव सूत्रे बहुलग्रहणात् अलुक् न भवतीत्याहुः ।
ननु--
जनार्दनस्त्वात्मचतुर्थ एव (महाभाष्ये ६-३-५ इत्यत्नोद्धृतमिदम् ) इति कथं
संगच्छते । अन आत्मनापश्वमः आत्मनादशमः इतिवत् आत्मनश्च (६-३-६)
इति पूरणे इति वक्तव्यम् इति च सूत्रवात्तिकाभ्यां तृतीयायाः अलुगापत्तेरिति
चेत् - अत्र वदन्ति (भाष्यकाराः) नायं तृतीयासमासः । किं तु आत्मा चतुर्थो
यस्येति बहुव्रीहिरिति । न चात्राप्यलुक् स्यादिति भ्रमितव्यम् । सूनवार्त्तिकयोः
तृतीयासामालुग्विषयत्वात् ।
 
अथ कथम् --
पौरोहित्यं रजनिचरितं ग्रामणीत्वं नियोगो
माठापत्यं वितथवचनं साक्षिवादः परान्नम् ।
ब्रह्मद्वेषः खलजनरतिः प्राणिनां निर्दयत्वं
मा भूदेवं मम पशुपते जन्मजन्मान्तरेऽपि ॥
 
इति प्रयोगः । अत्र मठपतिशब्दात् दित्यदित्येत्यादिसूत्रेण (४-१-८५)
प्राग्दीव्यतीयेष्वर्थेषु ण्यप्रत्यये तद्धितेष्वचामादेः (७-२-११७) इत्यनेन वृद्धौ
माठपत्यमिति स्यात् इति चेत्--प्रामादिकमेवेदमिति बहवः । आङप्रश्लेषेण वा
कथंचित् निर्वाहः कार्य इति केचित् ।
 
[^113]. See Mallinātha on Kirāta V.30, from where this is quoted. See
Note 109.
The Śabdakaustubha on 2.4.9 says thus :
teṣāṃ hi amṛtādiprayuktaḥ kādācitko virodho na tu nityaḥ.
manthanapravṛttikāle tadvirahāt.
Durghaṭavṛtti on 2.4.9 has this :
devānām asurāṇām ca kādācitko virodha iti rakṣitaḥ.