This page has been fully proofread once and needs a second look.

28
 
अथ कथम् --
 

येनापविद्धसलिस्फुटनागसद्या
 
मा
देवासुरैरमृतमम्बुनिधिर्ममन्थे
 

(किरात - - -३०) इति भारविः । अत्र देवाश्चासुराश्चेति द्वन्द्वे येषां च विरोधः

शाश्वतिकः (२-४-६) इतिसूत्रेण एकवद्भावः स्यादिति चेत् --अनात्राहुः । एतेषां

कार्यार्थ एव विरोधो न गोव्याघ्रादिवत्"[^113] शाश्वतिक इति ।
 

 
अथ कथम् --
 

भयस्य पूर्वावतरस्तरस्विना मनस्सु येन घुद्युसदां न्यधीयत
 

(माघकाव्ये १ -४३ )
 

 
इति माघः । धुद्युसदामित्यत्र तत्पुरुषे कृति बहुलम् (६-३-१४) इतिसूत्रेण

आदितेया दिविषदः (अमरकोशे ) इत्यत्रेव अलुगापत्तेरिति चेत् -- सत्यम् ।

अस्मिन्नेव सूत्रे बहुलग्रहणात् अलुक् न भवतीत्याहुः ।
 

ननु --
 
अथ कथम् --
 
साहित्यकण्टकोद्धारः
 
--
जनार्दनस्त्वात्मचतुर्थ एव ( महाभाष्ये ६-३-५ इत्यत्नोद्धृतमिदम् ) इति कथं

संगच्छते । अन आत्मनापश्वमः आत्मनादशमः इतिवत् आत्मनश्च ( ६-३-६)

इति पूरणे इति वक्तव्यम् इति च सूत्रवात्तिकाभ्यां तृतीयायाः अलुगापत्तेरिति

चेत् - अत्र वदन्ति (भाष्यकाराः) नायं तृतीयासमासः । किं तु आत्मा चतुर्थो

यस्येति बहुव्रीहिरिति । न चात्राप्यलुक् स्यादिति भ्रमितव्यम् । सूनवार्त्तिकयोः

तृतीयासामालुग्विषयत्वात् ।
 

 
अथ कथम् --
पौरोहित्यं रजनिचरितं ग्रामणीत्वं नियोगो
 

माठापत्यं वितथवचनं साक्षिवादः परान्नम् ।

ब्रह्मद्वेष: खलजनरतिः प्राणिनां निर्दयत्वं
 

मा भूदेवं मम पशुपते जन्मजन्मान्तरेऽपि ॥
 

 
इति प्रयोगः । अत्र मठपतिशब्दात् दित्यदित्येत्यादिसूत्रेण (४-१-८५)

प्राग्दीव्यतीयेष्वर्थेषु ण्यप्रत्यये तद्धितेष्वचामादे: (७-२-११७) इत्यनेन वृद्धौ

माठपत्यमिति स्यात् इति चेत् - --प्रामादिकमेवेदमिति बहवः । आङप्रश्लेषेण वा

कथंचित् निर्वाहः कार्य इति केचित् ।
 

 
[^
113]. See Mallinātha on Kirāta V.30, from where this is quoted. See

Note 109.
 

The Sabdakaustubha on 2.4.9 says thus :
 

teşāṣāṃ hi am hi amrtäṛtādiprayuktaḥ käādäācitko virodho na tu nityah.

manthanapravyttikaāle tadvirahaāt.
 

Durghatavrtti on 2.4.9 has this :
 

devānām asuranaāṇām ca kādācitko virodha iti rakṣitaḥ.