This page has not been fully proofread.

28
 
अथ कथम् --
 
येनापविद्धसलिस्फुटनागसद्या
 
देवासुरैरमृतमम्बुनिधिर्ममन्थे
 
(किरात - ५ -३०) इति भारविः । अत्र देवाश्चासुराश्चेति द्वन्द्वे येषां च विरोधः
शाश्वतिकः (२-४-६) इतिसूत्रेण एकवद्भावः स्यादिति चेत् --अनाहुः । एतेषां
कार्यार्थ एव विरोधो न गोव्याघ्रादिवत्" शाश्वतिक इति ।
 
अथ कथम् --
 
भयस्य पूर्वावतरस्तरस्विना मनस्सु येन घुसदां न्यधीयत
 
(माघकाव्ये १ ४३ )
 
इति माघः । धुसदामित्यत्र तत्पुरुषे कृति बहुलम् (६-३-१४) इतिसूत्रेण
आदितेया दिविषदः (अमरकोशे ) इत्यत्रेव अलुगापत्तेरिति चेत् -- सत्यम् ।
अस्मिन्नेव सूत्रे बहुलग्रहणात् अलुक् न भवतीत्याहुः ।
 
ननु --
 
अथ कथम् --
 
साहित्यकण्टकोद्धारः
 
जनार्दनस्त्वात्मचतुर्थ एव ( महाभाष्ये ६-३-५ इत्यत्नोद्धृतमिदम् ) इति कथं
संगच्छते । अन आत्मनापश्वमः आत्मनादशमः इतिवत् आत्मनश्च ( ६-३-६)
इति पूरणे इति वक्तव्यम् इति च सूत्रवात्तिकाभ्यां तृतीयायाः अलुगापत्तेरिति
चेत् - अत्र वदन्ति (भाष्यकाराः) नायं तृतीयासमासः । किं तु आत्मा चतुर्थो
यस्येति बहुव्रीहिरिति । न चात्राप्यलुक् स्यादिति भ्रमितव्यम् । सूनवार्त्तिकयोः
तृतीयासामालुग्विषयत्वात् ।
 
पौरोहित्यं रजनिचरितं ग्रामणीत्वं नियोगो
 
माठापत्यं वितथवचनं साक्षिवादः परान्नम् ।
ब्रह्मद्वेष: खलजनरतिः प्राणिनां निर्दयत्वं
 
मा भूदेवं मम पशुपते जन्मजन्मान्तरेऽपि ॥
 
इति प्रयोगः । अत्र मठपतिशब्दात् दित्यदित्येत्यादिसूत्रेण (४-१-८५)
प्राग्दीव्यतीयेष्वर्थेषु ण्यप्रत्यये तद्धितेष्वचामादे: (७-२-११७) इत्यनेन वृद्धौ
माठपत्यमिति स्यात् इति चेत् - प्रामादिकमेवेदमिति बहवः । आङप्रश्लेषेण वा
कथंचित् निर्वाहः कार्य इति केचित् ।
 
113. See Mallinātha on Kirāta V.30, from where this is quoted. See
Note 109.
 
The Sabdakaustubha on 2.4.9 says thus :
 
teşām hi amrtädiprayuktaḥ kädäcitko virodho na tu nityah.
manthanapravyttikale tadvirahat.
 
Durghatavrtti on 2.4.9 has this :
 
devānām asuranam ca kādācitko virodha iti rakṣitaḥ.