This page has been fully proofread once and needs a second look.

इति भारविः ।
 
लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा
(किरात ९-६० )
 
इति च । अत्र सौष्ठवं चौदार्यं चेति लोचने चाधरश्चेति चोभयत्रापि द्वन्द्वे
औदार्याधरशब्दयोः अजाद्यदन्तम् (२-२-३३) इतिसूत्रेण पूर्वनिपातापत्तेरिति चेत्--
अत्राहुः । अनित्यमिदं पूर्वनिपातप्रकरणम् । लक्षणहेत्वोः क्रियायाः (३-२-१२६)
इतिसूत्रे अल्पाचोऽपि हेतुशब्दस्य पूर्वनिपातमकुर्वता सूत्रकारेण तथा[^110] ज्ञापनादिति ।
एतेन
सस्ने माघमघातिघाति यमुनागङ्गौघयोगे यया (नैषधे १५-८६)
इति श्रीहर्षः पञ्चत्र्येकमिता दिवाकरगुणा अङ्काः कति स्युर्वद
इति ज्योतिश्शास्त्रं च व्याख्यातम् ।
 
अथ कथम्--
शिरःपृष्ठोरसां मूलमालस्यं भिन्नवर्णता
 
इति वाग्भटः । छिन्नेषु भिन्नेषु पाणिपादेषु इति च । अत्र द्वन्द्वे कृते द्वन्द्वश्च
प्राणितूर्यसेनाङ्गानाम् (२-४-२) इतिसूत्रेण नित्यमेकवद्भावः स्यादिति चेत्--
अत्रोच्यते । मुखनासिकावचनोऽनुनासिकः (१-१-८) इतिसूत्रे मुखं च नासिका
चेति भाष्यकारोक्तपक्षाज्ज्ञापकादस्य (एकवद्भावस्य) [^111]अनित्यत्वमिति ।
नासिकास्तनयोर्ध्माधेटोः (३-२-२६) इति सूत्रकार निर्देशादपि तथेति वयम् ।
 
अथ कथम्--
रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगितं नु
(किरातार्जुनीये ६-१५ )
 
इति प्रयोगः । अत्र तरवश्च शैलाश्चेति--द्वन्द्वे जातिरप्राणिनाम् (२-४-६)
इतिसूत्रेणैकवद्भावप्राप्तेरिति चेत्--सत्यम् । नायं द्वन्द्वसमासः । किं तु तरु-
सहिताः शैला इति शाकपार्थिवादिसमास इति समादधुः[^112]।
 
[^110]. See Mallinātha on Kirāta I.3, where he quotes the Kāśikā also from
3.2.126. See the Nyāsa and Padamañjarī on 3.2.126, which mention also
the uses : dhūmāgnī, and mṛdaṅgaśaṅkhapānavāḥ etc. See also Kāśikā on
4.4.118. See also P.M. on 2.2.33.
 
[^111]. Patañjali notes the view also :
sarvo dvandvo vibhāṣayaikavad bhavati
under 1.2.63, and on 2.4.12. The Nyāsakāra on 1.2.63 refers to this line
as a paribhāṣā.
 
[^112]. See Ś.K. on 2.4.6.