This page has been fully proofread once and needs a second look.

अथ कथम्--
विनसा हतबान्धवा (भट्टिकाव्ये ५-८)
 
इति भट्टिः । अत्र विगता नासिका यस्याः इति बहुव्रीहौ वेर्ग्रो वक्तव्यः
इति ख्यश्च इति च वार्त्तिकद्वयेन (उपसर्गादनोत्पर इतिसूत्रव्याख्याने कौमुद्यां
दृश्यताम् ) ग्रादे-शख्यादेशयोरन्यतरेण भवितव्यम् । ततश्च कथं विनसेति चेत्--
सत्यम् । विगतया नासिकया उपलक्षितेति (तत्पुरुषसमासमाश्रित्य) कथञ्चिद्
व्याख्येयमिति समादधुः[^103] ।
 
अथ कथम्--
स्वलावण्याशंसाधृतधनुषमह्नाय[^104] तृणवत् (महिम्नस्तवे-२३ )
 
इति पुष्पदन्तः । अत्र धनुषश्चेतिसूत्रेण (५-४-१३२) अनङप्राप्तेः (धृत-
धन्वानम् इतिरूपेण भवितव्यम् ) इति चेत्--सत्यम् । अत्र समासान्तविधेर-
नित्यत्वादिति समादधुः[^105] ।
ननु कथम्--
प्रजा इवाङ्गादरविन्दनाभेः शंभोर्जटाजूटतटादिवापः
(माघकाव्ये ३-६५)
 
इति माघः । अच् प्रत्यन्ववेति सूत्रे (५-४-७५) अच् इति योगविभागात्
अन्यत्रापि दृश्यते पद्मनाभः ऊर्णनाभः इतिकाशिकोक्तरीत्या अत्राप्यच्प्रत्यय-
प्राप्तेरिति चेत् अत्राहुः । समासान्तविधेरनित्यत्वमिति समाधानं कृतप्रायमेवेति ।
इदं तु विचार्यते । अरविन्दाकारा नाभिर्यस्येति विग्रहे गौणेनारविन्दशब्देन
सामानाधिकरण्याद् अस्तु समस्तपदमदन्तम् इदन्तं वा । अरविन्दं नाभौ यस्येति
विग्रहे तु सप्तमीविशेषणे बहुव्रीहौ (२-२-३५) इतिसूत्रेण नाभिशब्दस्य पूर्व-
निपातापत्तेरिति चेत्--अत्र वदन्ति । गड्वादिभ्यः परा सप्तमी वाच्या (२-२-३५)
 
[^103]. See Jayamaṅgalā on Bhaṭṭi V.8. Mallinātha explains it in a different
way. Bhaṭṭoji follows Jayamaṅgalā. See the Ś.K. on Upasargād anotparaḥ
(8.4.28).
 
[^104]. See Vāmana's K.A.S. V.2.65 and the Vṛtti thereon.
See the Harṣacarita
dhṛtadhanuṣi bāhuśālini śailā na namanti yat tad āścaryam
(VII. in the beginning )
See Uttararāmacarita V.4, and Bhaṭṭi 1.24.
 
The verse from the Mahimnastava was quoted in the Durghaṭavṛtti and
P.M. too under 5.4.132.
 
[^105]. See Durghaṭavṛtti & P.M. and the Tattvabodhinī (5.4.132). This
answer was given in these works.