This page has not been fully proofread.

साहित्यकण्टकोद्धारः
 
अथ कथम् --
 
विनसा हतबान्धवा (भट्टिकाव्ये ५- ८)
 
इति भट्टिः । अन विगता नासिका यस्याः इति बहुव्रीहौ वेर्नो वक्तव्यः
इति ख्यश्च इति च वात्तिकद्वयेन (उपसर्गादनोत्पर इतिसूत्रव्याख्याने कौमुद्यां
दृश्यताम् ) ग्रादे-शख्यादेशयोरन्यतरेण भवितव्यम् । ततश्च कथं विनसेति चेत् --
सत्यम् । विगतया नासिकया उपलक्षितेति (तत्पुरुषसमासमाश्रित्य) कथञ्चिद्
व्याख्येयमिति समादधुः'
 
103
 
अथ कथम्--
1
 
104
 
स्वलावण्याशंसाधृतधनुषमाय तृणवत् (महिम्नस्तवे - २३ )
 
इति पुष्पदन्तः । अत्र धनुषश्चेतिसूत्रेण (५-४-१३२) अनप्राप्तेः (धृत-
धन्वानम् इतिरूपेण भवितव्यम् ) इति चेत् -- सत्यम् । अत्र समासान्तविधेर-
नित्यत्वादिति समादधुः"
 
105
 
ननु कथम् --
 
प्रजा इवाङ्गादरविन्दनाभेः शंभोर्जटाजूटतटादिवापः
 
25
 
( माघकाव्ये ३-६५ )
 
इति माघः । अप्रत्यन्ववेति सूत्रे (५-४-७५) अच् इति योगविभागात्
अन्यत्रापि दृश्यते पद्मनाभः ऊर्णनाभः इतिकाशिकोक्तरीत्या अनाप्यच्प्रत्यय-
प्राप्तेरिति चेत् अनाहुः । समासान्तविधेरनित्यत्वमिति समाधानं कृतप्रायमेवेति ।
इदं तु विचार्यते । अरविन्दाकारा नाभिर्यस्येति विग्रहे गौणेनारविन्दशब्देन
सामानाधिकरण्याद् अस्तु समस्तपदमदन्तम् इदन्तं वा । अरविन्दं नाभौ यस्येति
विग्रहे तु सप्तमीविशेषणे बहुव्रीहौ (२-२-३५) इतिसूत्रेण नाभिशब्दस्य पूर्व-
निपातापत्तेरिति चेत् --अत्र वदन्ति । गड्वादिभ्यः परा सप्तमी वाच्या (२-२-३५
 
103. See Jayamangalā on Bhatti V.8. Mallinātha explains it in a different
way. Bhattoji follows Jayamangalā. See the S.K. on Upasargād anotparah
(8.4.28).
 
104. See Vāmana's K.A.S. V.2.65 and the Vrtti thereon.
 
See the Harşacarita
 
dhrtadhanuşi bahuśälini śaila na namanti yat tad āścaryam
 
(VII. in the beginning )
 
See Uttararāmacarita V.4, and Bhatti 1.24.
 
The verse from the Mahimnastava was quoted in the Durghatavṛtti and
P.M. too under 5.4.132.
 
105. See Durghatavrtti & P.M. and the Tattvabodhini ( 5.4.132). This
answer was given in these works.