This page has been fully proofread once and needs a second look.

साहित्यकण्टकोद्धारः
 
अथ कथम्--

इक्षुच्छायानिषादिन्यस्तस्य गोप्तुर्गुणोदयम् ।
 

आकुमारकथोद्घातं शालिगोप्यो जगुर्यशः ॥ (रघुवंशे ४-२० )
 
23
 

 
इति कालिदासः । अत्र इक्षूणां छायेति विग्रहे छाया बाहुल्ये (२-४-२२)

इति सूत्रेण नपुंसकत्वप्राप्तेरिति चेत् --अनात्राहुः । इक्षुच्छाये आ समन्तात निषा-

दिन्य इत्याङ'[^96] प्रश्लेषो बोध्यः इति ।
 

 
अथ कथम् -
 
इति माघः ।
 
--
(छादितः कथमपि त्रपयान्तर्यः प्रियं प्रति चिराय रमण्याः ।)

वारुणीमदविशङ्कमथाविश्चक्षुषोऽभवदसाविव रागः
 

( माघे १०- १६ )
 

इति माघः ।
( पृथुदर्विभृतस्ततः फणीन्द्रा विषमाशीभिरनारतं वमन्तः ) ।

अभवन् युगपद् विलोलजिह्वायुगलीढोभयसूक्कमाविः ॥ (माघे २०-४२)
 

इति च ।
 

 
अत्र आविश्शब्दस्य साक्षात्प्रभृतिषु (१-४-७४) पाठात् विभाषा कृञि (१-४-

७२) इति सूत्रस्यानुवृत्त्या साक्षात् प्रभृतीनि चेति सूत्रेण <flag>कृञ्ञो</flag> योगे एव (आवि-

शशब्दस्य) गतिसंज्ञाविकल्पः । भ्वस्तियोगे तु (भूधातोरस्तेश्च योगे तु) ऊर्यादि-
चिव

च्वि
डाचश्च (१-४-६१) इति सूत्रेण नित्यमेव गतिसंज्ञा स्यात् । ततश्च ते प्राग्

धातोः (१-४-८०) इति नियमात् भूधातुना योगे आविश्शब्दस्य अव्यवहितपूर्व-

प्रयोग एव युक्तः । प्रकृते तु व्यवहितप्रयोगात् परतया प्रयोगाच्च दोषः इति चेत् --
--
सत्यम् । प्रमाद एवायमिति वृत्तिकारादीनां मतेन गम्यते । निरङ्कशाः कवयः
[^97]
इति हरदत्तः । वस्तुतस्तु ते प्राग्धातोः (१-४-८०) इतिसूत्रस्य [^98]प्रयोगनियमा-

र्थत्वपक्षे प्रकृतेऽनुपपत्तावपि संज्ञानियमार्थत्वपक्षे दोषलेशोऽपि नास्तीति
 

 
[^
96]. See the S.K. on 2.4.22.
 

 
[^
97.] The wording here is the same as was used by Bhattṭṭoji.
 

See his S.K. on 1.4.61.
 

It is Haradatta who quotes these usages to illustrate the question. The

wording of his answer is svatantraāḥ kavayaḥ. See op. cit. Mallinātha on Mäāgha

X.19 says :
 
ä

ā
virbhuvor vyavadhanamānaṃ kavisvaātantryāt.
 

 
[^
98]. See the S.K. on 1.4.61 for the two interpretations of prayoganiyama and
sam

saṃ
jhañāniyama. Our author is referring to Bhattṭṭoji by Bhasāṣyarahasyajñaḥ.