This page has been fully proofread once and needs a second look.

अथ कथम् --
तान्युच्छषष्ठाङ्कितसैकतानि (रघुवंशे ५-८ )
 
इति कालिदासः । अत्र उच्छानां षष्ठः इति विग्रहे पूरणगुणेति (२-२-११)
सूत्रेण समासनिषेधापतिरिति चेत्--सत्यम् । प्रमाद एवायमित्येके । उच्छेषु
षष्ठः उच्छात्मकः षष्ठः--इत्यादि[^92] रीत्या वा व्याख्येयम् ।
अथ कथम्--
व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः
 
इत्यमरः । व्यध्वे विपथकापथौ इति रभसकोशश्च । अत्र विगतः पन्थाः
कुत्सितः पन्थाः इति विग्रहे कुगतिप्रादयः (२-२-१८) इति समासे ऋक्पूरब्धूः
पथामानक्षे (५-४-७४) इति सूत्रेण (अ-इति) समासान्तप्रत्यये पथः संख्याव्य-
यादेः (स नपुंसकम् इतिसूत्रवृत्तौ सि-कौमुद्यां स्थितेन) इति वार्त्तिकेन क्लीबता
स्यात् । अस्तु क्लीबत्वमिति चेत् । विपथं कदध्वा [^93]कापथं समाः इति पाठस्त्व-
पेक्षितः स्यात् । तथा च नैकशेषो न संकरः इति (कोशादौ निर्दिष्टस्य) मूलकार-
नियमस्य भङ्गापत्तेः इति चेत्--अत्राहुः । प्रमाद एवायमिति बहवः । वस्तु-
तस्तु पथे गतो इति धातोः पचाद्यचि (३-१-१३४) पथति व्याप्नोतीति पथः
इत्यकारान्तोऽयम् । तथा च समासे पुंस्त्वप्रयोगः साधुरेवेति । अत एव त्रिकाण्ड-
शेषः--वाटः पथश्च मार्गः स्यात् इति । [^93a]द्विरूपकोशोऽपि त्वचि त्वचः किरोऽपि
स्यात् किरा प्रोक्तः पथः पथि इति ।
 
ननु विपथसिद्धावपि कापथसिद्धिः कथम् । कादेशस्य दुर्लभत्वात् इति
चेत्--सत्यम् । ईषदर्थे[^94] च (६-३-१०५) इतिसूत्रेण तत्संभवात् । कुत्साया-
मर्थतः पर्यवसानात् ।
 
अथ कथम्--
[^94a]नृपतिसभामगमन्नवेऽपमाने इति कीचकवधे (२-२५)
 
अत्र सभा राजा अमनुष्यपूर्वा (२-४-२३) इति सूत्रे (राज-) पर्यायस्यैवेष्यते
इति वार्त्तिकेण क्लीबत्वप्राप्तेरिति चेत्--सत्यम् । गजपतिवद् राजविशेषवाचित्वात्
इति[^95]समादधुः ।
 
[^92]. See also Mallinātha on Raghu-V.8, and Vāmana's K.A.S. V.1.17.
[^93]. See the Durghaṭavṛtti on 2.4.30. Bhaṭṭoji says that Kṣīrasvāmin and
Durghaṭavṛtti suggested this <flag>cmendation</flag> into neuter form. See Ś.K. on 2.4.18.
[^93a]. Dvirūpakośa is not mentioned by Bhaṭṭoji.
[^94]. See the Ś.K. on 2.4.18.
[^94a]. The Kicakavadha (of Nitivarman) was edited by S. K. De (1929).
[^95]. See the Durghaṭavṛtti on 2.4.23, and also the Ś.K. This was quoted
therein as the view of Rakṣita (i.e. Maitreyarakṣita ). Some other justifi-
cations are also suggested in these texts (q.v.).