This page has been fully proofread once and needs a second look.

22
 
साहित्यकण्टकोद्धार :
 
अथ कथम् --
 

तान्युच्छषष्ठाङ्कित सैकतानि ( रघुवंशे ५ -८ )
 

 
इति कालिदासः । अत्र उच्छानां षष्ठः इति विग्रहे पूरणगुणेति (२-२-११)

सूत्रेण समासनिषेधापतिरिति चेत् --सत्यम् । प्रमाद एवायमित्येके । उच्छेषु

षष्ठः उच्छात्मकः षष्ठः --इत्यादि[^92] रीत्या वा व्याख्येयम् ।
 

अथ कथम्--

व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः
 

 
इत्यमरः । व्यध्वे विपथकापथौ इति रभसकोशश्च । अत्र विगतः पन्थाः

कुत्सितः पन्थाः इति विग्रहे कुगतिप्रादयः (२-२-१८) इति समासे ऋक्पूरब्धूः

पथामानक्षे (५-४-७४) इति सूत्रेण ( अ-इति) समासान्तप्रत्यये पथः संख्याव्य-

यादे: ( स नपुंसकम् इतिसूत्रवृत्तौ सि-कौमुद्यां स्थितेन) इति वार्त्तिकेन क्लीबता

स्यात् । अस्तु क्लीबत्वमिति चेत् । विपथं कदध्वा " [^93]कापथं समाः इति पाठस्त्व-

पेक्षितः स्यात् । तथा च नैकशेषो न संकरः इति (कोशादौ निर्दिष्टस्य) मूलकार-

नियमस्य भङ्गापत्तेः इति चेत् -- --नात्राहुः । प्रमाद एवायमिति बहवः । वस्तु-

तस्तु पथे गतो इति धातोः पचाद्यचि (३-१-१३४) पथति व्याप्नोतीति पथः

इत्यकारान्तोऽयम् । तथा च समासे पुंस्त्वप्रयोगः साधुरेवेति । अत एव त्रिकाण्ड-

शेष:--वाट: पथश्च मार्गः स्यात् इति । [^93a]द्विरूपकोशोऽपि त्वचि त्वचः किरोऽपि

स्यात् किरा प्रोक्तः पथः पथि इति ।
 
93 2
 

 
ननु विपथसिद्धावपि कापथसिद्धिः कथम् । कादेशस्य दुर्लभत्वात् इति

चेत् -- --सत्यम् । ईषदर्थे"[^94] च ( ६-३-१०५) इतिसूत्रेण तत्संभवात् । कुत्साया-

मर्थतः पर्यवसानात् ।
 

 
अथ कथम्--

[^94a]
नृपतिसभामगमन्नवेऽपमाने इति कीचकवधे (२-२५)
 

 
अत्र सभा राजा अमनुष्यपूर्वा (२-४-२३) इति सूत्रे (राज-) पर्यायस्यैवेष्यते

इति वार्त्तिकेण क्लीबत्वप्राप्तेरिति चेत् --सत्यम् । गजपतिवद् राजविशेषवाचित्वात्
इति"

इति[^95]
समादधुः ।
 

 
[^
92]. See also Mallinātha on Raghu - -V.8, and Vāmana's K.A.S. V.1.17.

[^
93]. See the Durghatavrtti on 2.4.30. Bhattṭṭoji says that Ksiṣīrasvāmin and

Durghatavrtti suggested this <flag>cmendation</flag> into neuter form. See S.K. on 2.4.18.

[^
93-aa]. Dvirūpakośa is not mentioned by Bhattṭṭoji.
 

[^
94]. See the S.K. on 2.4.18.
 

[^
94-aa]. The Kicakavadha (of Nitivarman) was edited by S. K. De (1929).

[^
95]. See the Durghatavrtti on 2.4.23, and also the S.K. This was quoted

therein as the view of Raksita (i.e. Maitreyarakşita ). Some other justifi-

cations are also suggested in these texts (q.v.).