This page has not been fully proofread.

22
 
साहित्यकण्टकोद्धार :
 
अथ कथम् --
 
तान्युच्छषष्ठाङ्कित सैकतानि ( रघुवंशे ५ ८ )
 
इति कालिदासः । अत्र उच्छानां षष्ठः इति विग्रहे पूरणगुणेति (२-२-११)
सूत्रेण समासनिषेधापतिरिति चेत् --सत्यम् । प्रमाद एवायमित्येके । उच्छेषु
षष्ठः उच्छात्मकः षष्ठः -इत्यादि रीत्या वा व्याख्येयम् ।
 
अथ कथम्--
व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः
 
इत्यमरः । व्यध्वे विपथकापथौ इति रभसकोशश्च । अत्र विगतः पन्थाः
कुत्सितः पन्थाः इति विग्रहे कुगतिप्रादयः (२-२-१८) इति समासे ऋक्पूरब्धूः
पथामानक्षे (५-४-७४) इति सूत्रेण ( अ-इति) समासान्तप्रत्यये पथः संख्याव्य-
यादे: ( स नपुंसकम् इतिसूत्रवृत्तौ सि-कौमुद्यां स्थितेन) इति वात्तिकेन क्लीबता
स्यात् । अस्तु क्लीबत्वमिति चेत् । विपथं कदध्वा " कापथं समाः इति पाठस्त्व-
पेक्षितः स्यात् । तथा च नैकशेषो न संकरः इति (कोशादौ निर्दिष्टस्य) मूलकार-
नियमस्य भङ्गापत्तेः इति चेत् -- अनाहुः । प्रमाद एवायमिति बहवः । वस्तु-
तस्तु पथे गतो इति धातोः पचाद्यचि (३-१-१३४) पथति व्याप्नोतीति पथः
इत्यकारान्तोऽयम् । तथा च समासे पुंस्त्वप्रयोगः साधुरेवेति । अत एव त्रिकाण्ड-
शेष:-वाट: पथश्च मार्गः स्यात् इति । द्विरूपकोशोऽपि त्वचि त्वचः किरोऽपि
स्यात् किरा प्रोक्तः पथः पथि इति ।
 
93 2
 
ननु विपथसिद्धावपि कापथसिद्धिः कथम् । कादेशस्य दुर्लभत्वात् इति
चेत् -- सत्यम् । ईषदर्थे" च ( ६-३-१०५) इतिसूत्रेण तत्संभवात् । कुत्साया-
मर्थतः पर्यवसानात् ।
 
अथ कथम्--
नृपतिसभामगमन्नवेऽपमाने इति कीचकवधे (२-२५)
 
अत्र सभा राजा अमनुष्यपूर्वा (२-४-२३) इति सूत्रे (राज-) पर्यायस्यैवेष्यते
इति वात्तिकेण क्लीबत्वप्राप्तेरिति चेत् सत्यम् । गजपतिवद् राजविशेषवाचित्वात्
इति" समादधुः ।
 
92. See also Mallinātha on Raghu - V.8, and Vāmana's K.A.S. V.1.17.
93. See the Durghatavrtti on 2.4.30. Bhattoji says that Ksirasvāmin and
Durghatavrtti suggested this cmendation into neuter form. See S.K. on 2.4.18.
93-a. Dvirūpakośa is not mentioned by Bhattoji.
 
94. See the S.K. on 2.4.18.
 
94-a. The Kicakavadha (of Nitivarman) was edited by S. K. De (1929).
95. See the Durghatavrtti on 2.4.23, and also the S.K. This was quoted
therein as the view of Raksita (i.e. Maitreyarakşita ). Some other justifi-
cations are also suggested in these texts (q.v.).