This page has been fully proofread once and needs a second look.

अत्र कर्मणि षष्ठ्याः [^87]तृजकाभ्यां कर्तरि (२-२-१५) इति सूत्रेण षष्ठी-
समासनिषेधात् घटानां निर्मातुरितिवत् त्रिभुवनस्य विधातुरित्यसमस्तेन भवितव्यम् ।
तेन कथं समास इति चेत्--
 
सत्यम् । प्रमाद एवायमिति बहवः । कैयटस्तु तृजकाभ्यां कर्तरि (२-२-१५ )
कर्तरि च (२-२-१६) इत्यादिषष्ठीसमासनिषेधस्य सूत्रान्तरविहितषष्ठीविषय-
त्वात् षष्ठी शेषे (२-३-५०) इति सूत्रेण विहिता या षष्ठी तया सह षष्ठी (२-२-८)
इतिसूत्रेण (राज्ञः पुरुषो राजपुरुष इतिवत्) समासे बाधकाभावादित्यभिप्रायेण
शेषषष्ठया[^88] समास इति [^89]समादधौ । अथ वा नात्र षष्ठीसमासः । किं तु द्वितीयेति
(२-१-२४) योगविभागाद् त्रिभुवनविधातेति द्वितीयासमास इति दुर्घटवृत्तिकारः
(२-२-१६) । न[^90] च विधातेति कृत्प्रत्ययान्तशब्दप्रयोगे कर्तृकर्मणोः कृतीति
(२-३-६५) कर्मणि षष्ठ्येव स्यात् । ततश्च तृजकाभ्यामित्यादिषष्ठीसमास-
निषेधो वज्रलेपायत इति वाच्यम् । तदर्हमिति (५-१-११७) सूत्रज्ञापकात् कर्तृ-
कर्मणोः कृतीति (२-३-६५) षष्ठ्याः अनित्यत्वात्[^91] । तथा च षष्ठीप्राप्त्यभावे
समासनिषेधस्य दूरमपास्तत्वात् गर्जन् द्वितीयासमासो भविष्यतीति यदन्यैरेवोक्तं
तद् युक्तमिति वयमालोचयामः ।
 
[^87]. The MS. G reads kartarīti sūtreṇa, and I think that the rule here is
tṛjakābhyāṃ kartari (2.2.15). All other MSS. read karmaṇi ca, which does not
seem to be correct. There was some confusion in the understanding of the
rules Tṛjakābhyām (2.2.15) and Kartari ca (2.2.16). For a clear interpretation,
see the P.M., and the Śabdakaustubha.
 
[^88]. Commenting on the expression guṇiviśeṣaka in the Mahābhāṣya under
1.4.21, Kaiyaṭa says thus:
ata eva vacanād anityaḥ ṣaṣthīsamāsapratiṣedhaḥ.
śeṣaṣaṣṭhyā vā samāsaḥ. (p. 236; Vol. II.N.S.P.)
 
See also the Nyāsa and the Padamañjarī on 4.1.33 on phalagrahītṛtvāt, and
on 2.2.12 (janikartuḥ tatprayojaka ityādau śeṣaṣaṣṭhyaiva samāsasya siddhatvāt).
These are mentioned by Bhaṭṭoji in his Ś.K. under 2.2.15.
 
[^89]. See also the Nyāsa, which says:
tena--bhīṣmaḥ kurūṇāṃ bhayaśokahartā (Mahābhārata?)
ityādi siddhaṃ bhavati.
 
The Nyāsakāra justifies the expression by having the tṛn suffix (instead
of the usual tṛc). He however seems to imply about the first element that
it would be case of śeṣe ṣaṣṭhī.
 
[^90]. In MSS. A & G na ca is missing. Others have it.
 
[^91]. See the P.M., and the Ś.K. on 2.3.65, and the Jayamaṅgalā and
Mallinātha on Bhaṭṭi VI.79 (or 80 ) – (dhāyair āmodam).