This page has been fully proofread once and needs a second look.

अथ कथम्--
स्मरत्यदो दाशरथिर्भवन् भवानमुं वनान्ताद् वनितापहाररिणम् (१-६८)
इति माघः ।
मुहुरनुस्मरयन्तमनुक्षपं त्रिपुरदाहमुमापतिसेविनः । (५-१४)
इति भारविश्च । अत्रादः स्मरतीत्यन्वये अधीगर्थदयेशां कर्मणीति सूत्रेण
(२-३-५२) स्मृत्यर्थधातुयोगे षष्ठी यात्। यथा वा
सस्मार वारणपतिः परिमीलिताक्षमिच्छाविहारवनवासमहोत्सवानाम्
(५-५० )
इत्यत्र माघे । इति चेत्--
 
अत्राहुः--अधीगर्थेतिसूत्रे कर्मणः शेषत्वविवक्षायामेव षष्ठीतिव्याख्यानात्
प्रकृते च शेषत्वस्य अविवक्षणाद् द्वितीयेति ।
 
अथ कथम् --
अपि वागधिपस्य दुर्वचं वचनं तद् विदधीत विस्मयम् (२-२)
इति भारविः ।
इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः (१-७२)
 
इति रघुवंशे च । अत्र दुर्वचमिति दुरापे इति च खलर्थयोगेन न लोकाव्यय-
निष्ठाखलर्थतृनाम् (२-३-६९) इति षष्ठीनिषेधात् कथं वागधिपस्येति इक्ष्वाकूणा-
मिति च प्रयोगः साधुः स्यात् इति चेत्--अत्र वदन्ति । निषेधसूत्रस्य [^82]कारकषष्ठी-
विषयत्वात् षष्ठी शेषे (२-३-५०) इति सूत्रेण विहिता या षष्ठी सा तु स्यादेवेति ।
अन्ये तु [^83]इक्ष्वाकूणां सिद्धय इति वागधिपस्य विस्मयमिति चान्वये खलर्थ-
योगाभावात् न कश्चिद् दोष इति समादधुः ।
 
अथ कथम्
अतिशयान्ध्यवपुः क्षयपाण्डुताः स्मर भवन्ति भवन्तमुपासितुः
(नैषधे ४-८५)
 
इति श्रीहर्ष । अत्र उपासितुरिति तृजन्तयोगे भवन्तमित्यत्न कर्तृकर्मणोः
कृति (२-३-६५) सूत्रेण कर्मणि षष्ठी स्यादिति चेत्--सत्यम् । नायं तृजन्तः ।
किं तु तृन्नन्तः । तत्र न लोकेति (२-२३-६९) षष्ठीनिषेधात् कर्मणि द्वितीयेति
समादधुः ।
 
[^82]. See Ś.K. on 2.3.69, and the S.K. where this point is discussed.
[^83]. This is given as an alternate explanation by Mallinātha on Kirāta
II.2, and Bhṭṭoji in his Ś.K. on 2.3.69 in this context.