This page has not been fully proofread.

साहित्यकण्टकोद्धारः
 
अथ कथम् --
 
--
स्मरत्यदो दाशरथिर्भवन् भवानमुं वनान्ताद् वनितापहाररिणम् ( १-६८)
 

इति माघः ।
 

मुहुरनुस्मरयन्तमनुक्षपं त्रिपुरदाहमुमापतिसेविनः । (५-१४)

इति भारविश्च । अनात्रादः स्मरतीत्यन्वये अधीगर्थदयेशां कर्मणीति सूत्रेण

(२-३-५२) स्मृत्यर्थधातुयोगे षष्ठी यात्। यथा वा

सस्मार वारणपतिः
 
परिमीलिताक्षमिच्छाविहारवनवासमहोत्सवानाम्
 

( ५-५० )
 

इत्यत्र माघे । इति चेत् --
 
--
 
अत्राहुः -- --अधीगर्थेतिसूत्रे कर्मणः शेषत्वविवक्षायामेव षष्ठीतिव्याख्यानात्

प्रकृते च शेषत्वस्य अविवक्षणाद् द्वितीयेति ।
 

 
अथ कथम् --
 
19
 

अपि वागधिपस्य दुर्वचं वचनं तद् विदधीत विस्मयम् ( - )
 

इति भारविः ।
 

इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः (१-७२)
 

इति रघुवंशे च । अत्र दुर्वचमिति दुरापे इति च खलर्थयोगेन न लोकाव्यय-

निष्ठाखलर्थतृनाम् (२-३-६६) इति षष्ठीनिषेधात् कथं वागधिपस्येति इक्ष्वाकूणा-

मिति च प्रयोगः साधुः स्यात् इति चेत् --अत्र वदन्ति । निषेधसूत्रस्य [^]कारकषष्ठी-

विषयत्वात् षष्ठी शेषे (२-३-५०) इति सूत्रेण विहिता या षष्ठी सा तु स्यादेवेति ।

अन्ये तु [^" ]इक्ष्वाकूणां सिद्धय इति वागधिपस्य विस्मयमिति चान्वये खलर्थ-

योगाभावात् न कश्चिद् दोष इति समादधुः ।
 

 
अथ कथम्
 

अतिशयान्ध्यवपुः क्षयपाण्डुताः स्मर भवन्ति भवन्तमुपासितुः
 

(नैषधे ४-८५)
 

 
इति श्रीहर्ष । अत्र उपासितुरिति तृजन्तयोग भवन्तमित्यत्न कर्त कर्मणोः

कृति (२-३-६५) सूत्रेण कर्मणि षष्ठी स्यादिति चेत् --सत्यम् । नायं तृजन्तः ।

कि तु तृन्नन्तः । तत्र न लोकेति (२-२३-६६) षष्ठीनिषेधात् कर्मणि द्वितीयेति

समादधुः ।
 

 
82. See S.K. on 2.3.69, and the S.K. where this point is discussed.

83. This is given as an alternate explanation by Mallinātha on Kirata
 

 
II.2, and Bhttoji in his S.K. on 2.3.69 in this context.