This page has been fully proofread once and needs a second look.

अथ कथम्--
स्त्रक् पारिजातस्य ऋते नलाशां वासैरशेषामपुपूरदाशाम् (नैषधे ६-८६)
इति श्रीहर्षः ।
न मामृते राम रमेत वाली । इति च ।
को हि लब्ध्वा प्रियान् पुत्राञ् छपेदेवं पितामह ।
ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः ॥
 
इति माहाभारते आदिपर्वणि जरत्कारूपाख्याने । अत्र अन्यारादितरर्ते--
(२-३-२९) इत्यादिसूत्रेण ऋते नालशामित्यादौ पञ्चमी स्यादिति चेत्--अत्राहुः ।
प्रमाद एवायमित्येके । अन्ये [^77]तु--उभसर्वतसोरित्यत्र (ततोऽन्यत्रापि दृश्यते
इति) दृशिग्रहणात् ऋते-योगे द्वितीयापि साधुरित्याहुः । युक्तं चैतत् । ऋते
द्वितीया च इति चान्द्रसूत्रात् ।
 
अथ कथम्--
कुमार्य इव कान्तस्य त्रस्यन्ति स्पृह्यन्ति च । इति ।
 
अत्र कान्तस्येत्यत्र त्रसियोगे भीत्रार्थानां भयहेतुः (१-४-२५) इतिसूत्रेण
(अपादानसंज्ञायाम्) पञ्चमीप्राप्तेः । तथा स्पृहियोगे स्पृहेरीप्सितः (१-४-३६)
इति सूत्रेण (संप्रदानसंज्ञायाम् ) चतुर्थीप्राप्तेश्चेति चेत्--अत्राहुः [^78 ] उभयत्रापि
शेषत्वविवक्षायां षष्ठीति ।
 
अथ कथम्--
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ।
 
इति रामायणम् । अत्र बिभेतेर्योगे भीत्रार्थानां भयहेतुः (१-४-२४) इति
सूत्रेण (अपादानसंज्ञायाम् ) संयुगे इत्यत्र पञ्चमीप्राप्तेरिति चेत्--अत्र [^79]वदन्ति ।
कस्य संयुगे इत्यन्वयात् परया अधिकरणसंज्ञया बाधात् इति ।
अथ कथम्--
मणिबन्धादाकनिष्ठं करस्य करभो बहिः
 
इत्यमरः । अन अपपरिबहिरञ्चवः पञ्चम्या (२-१-१२) इतिसमासविधान-
[^80]ज्ञापकात् बहिर्योगे करस्येत्यत्र पञ्चमीप्राप्तेरिति चेत्--अत्राहुः ज्ञापकसिद्धं न
सर्वत्रेति [^81]परिभाषया तदभावसिद्धिः ।
 
[^77]. This is a reference to Bhaṭṭoji. See his P.M. (p. 927).
[^78]. This is again a reference to Bhaṭṭoji. See his S.K. on 1.4.36. He
has similar discussion in the Śabdakaustubha too, on 1.4.36.
[^79]. See P.M. (p. 923).
[^80]. See the Kāśikā on 2.1.2.
[^81]. See the Durghaṭavṛtti (2.1.12) and the Paribhāṣenduśekhara for the
paribhāṣā.