This page has been fully proofread once and needs a second look.

18
 
प्र
थ कथम् --
 
--
स्त्रक् पारिजातस्य ऋते नलाशां वासैरशेषामपुपूरदाशाम् (नैषधे ६-८६ )
 

इति श्रीहर्षः ।
 

न मामृते राम रमेत वाली । इति च ।
 

को हि लब्ध्वा प्रियान् <flag>पुत्राञ्ञ्</flag> छपेदेवं पितामह ।

ऋते कद्रंरूं तीक्ष्णरूपां देवदेव तवाग्रतः ॥
 

 
इति माहाभारते आदिपर्वणि जरत्कारूपाख्याने । अत्र अन्यारादितरतें--
र्ते--
(२-३-२६) इत्यादिसूत्रेण ऋते नालशामित्यादौ पञ्चमी स्यादिति चेत् --अवा--अत्राहुः ।

प्रमाद एवायमित्येके । अन्ये "[^77]तु - - --उभसर्वतसोरित्यत्र ( ततोऽन्यत्रापि दृश्यते

इति) दृशिग्रहणात् ऋते- योगे द्वितीयापि साधुरित्याहुः । युक्तं चैतत् । ऋते

द्वितीया च इति चान्द्रसूत्रात् ।
 

 
अथ कथम्--
साहित्यकण्टकोद्धारः
 

कुमार्य इव कान्तस्य त्रस्यन्ति स्पृह्यन्ति च । इति ।
 

 
अत्र कान्तस्येत्यत्र व्त्रसियोगे भीवात्रार्थानां भयहेतुः (१-४-२५) इतिसूत्रेण

(अपादानसंज्ञायाम्) पञ्चमीप्राप्तेः । तथा स्पृहियोगे स्पृहेरीप्सितः (१-४-३६)

इति सूत्रेण (संप्रदानसंज्ञायाम् ) चतुर्थीप्राप्तेश्चेति चेत् - अना--अत्राहु: [^78 ] उभयत्रापि

शेषत्वविवक्षायां षष्ठीति ।
 

 
अथ कथम् --
 
--
कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ।
 

 
इति रामायणम् । अत्र बिभेतेर्योगे भीत्रार्थानां भयहेतुः (१-४-२४) इति

सूत्रेण (अपादानसंज्ञायाम् ) संयुगे इत्यत्र पञ्चमीप्राप्तेरिति चेत् --अत्र --अत्र [^79]वदन्ति ।

कस्य संयुगे इत्यन्वयात् परया अधिकरणसंज्ञया बाधात् इति ।
 

अथ कथम् --
 
--
मणिबन्धादाकनिष्ठं करस्य करभो बहिः
 

 
इत्यमरः । अन अपपरिबहिरञ्चवः पञ्चम्या (२-१-१२) इतिसमासविधान-

[^
8 0]ज्ञापकात् बहिर्योोंयोगे करस्येत्यत्र पञ्चमीप्राप्तेरिति चेत् --अवा--अत्राहुः ज्ञापकसिद्धं न

सर्वत्रेति [^8 1]परिभाषया तदभावसिद्धिः ।
 

 
[^
77]. This is a reference to Bhattṭṭoji. See his P.M. (p. 927).
 

[^
78]. This is again a reference to Bhattṭṭoji. See his S.K. on 1.4.36. He

has similar discussion in the Sabdakaustubha too, on 1.4.36.
 

[^
79]. See P.M. (p. 923).
 

[^
80]. See the Kāsikā on 2.1.2.
 

[^
81]. See the Durghatavrtti ( 2.1.12) and the Paribhāşenduśekhara for the

paribhāsā.