This page has been fully proofread once and needs a second look.

अथ कथम्--
तत्रागारं धनपतिगृहादुत्तरेणास्मदीयम् (मेघसंदेशे २-८ )
 
इति कालिदासः । अत्र उत्तरेणेत्येनप्प्रत्ययान्तयोगे धनपतिगृहादित्यत्र एनपा
द्वितीया (२-३-३१ इति सूत्रेण द्वितीयाप्राप्तेरिति चेत्--न । नायमेनप्प्रत्ययान्तः ।
किं तु तृतीयान्तः । उत्तरेण तोरणेनेत्यन्वय [^72]इत्याहुः ।
ननु कथम्--
[^73]तुलां यदारोहति दन्तवाससा इति (कुमारसंभवे--५-३४)
कालिदासः ।
 
स्फुटोपमं भूतिसितेन शंभुना इति (शिशुपालवधे १-४)
माघश्च । अत्र तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम् (२-३-७२) इति सूत्रेण
(अतुलोपमाभ्यामिति निषेधात्) तृतीयायाः अप्राप्तत्वात् । अत्र तुलोपमाशब्द-
योरेव प्रयोगात् इति चेत्--उच्यते । अत्र सहयुक्तेऽप्रधाने (२-३-१९) इति
तृतीया । (सहशब्दप्रयोगाभावेऽपि तदर्थे गम्ये तस्याःसाधुत्वात् ।) उक्तं हि
विनापि तद्योगं तृतीया[^74] (सिद्धान्तकौमुद्याम् ) इति ।
यथा--
स्ववालभारस्य तदुत्तमाङ्गजैः स्वयं चमर्येव तुलाभिलाषिणः (नैषधे
१- २५ )
श्रीहर्षप्रयोगे ।
अथ कथम्--
प्रभुर्बुभूषुर्भुवनत्रयस्य यः शिरोऽतिरागाद्दशमं चिकर्तिषुः (माघे १-४९)
इति माघः । अत्र नमः स्वस्तीति सूत्रेण (२-३-१६) चतुर्थी स्यात् । तस्मै प्रभव-
तीति ज्ञापकात् अलमिति पर्याप्त्यर्थग्रहणमिति व्याख्यानात्[^75] । तेन प्रभुशब्दयोगे
चतुर्थी युक्तेति कथं भुवनत्रयस्येति षष्ठी--इति चेत्--सत्यम् । स एषां ग्रामणीः
(५-२-७८) इति सूत्रकारनिर्देशात् प्रभ्वादियोगे षष्ठ्यपि साधुरिति समा[^76]दधुः ।
 
[^72]. Mallinātha also notes this as an alternate interpretation. Perhaps by
āhuḥ our author is referring to Mallinātha.
[^73]. Also see the Raghuvaṃśa: (VIII.15)
nabhasā nibhṛtendunā tulām uditārkeṇa samāruroha tat.
[^74]. See also the Kāśikā on 2.3.19. Haradatta, Mallinātha, Bhaṭṭoji and
others explain the tṛtīyā with tulā and upamā in a different manner.
See
Padamañjarī on 2.3.72 and Mallinātha on Raghu-VIII.15, on Māgha I.4,
and Kumāra– V.34.
[^75]. See the Kāśikā on 2.3.16, and the S.K. on the same.
[^76]. This is a reference to Bhaṭṭoji. See his S.K. on 2.3.16, and the
Mahābhāṣya under 2.3.16, which is the source for others.