This page has been fully proofread once and needs a second look.

साहित्य कण्टकोद्धारः
 
अथ कथम् --
 
--
त्त्रागारं धनपतिगृहादुत्तरेणास्मदीयम् (मेघसंदेशे २ -८ )
 

इति कालिदासः । अत्र उत्तरेणेत्येनप्प्रत्ययान्तयोगे धनपतिगृहादित्यत्र एनपा

द्वितीया (२-३-३१ इति सूत्रेण द्वितीयाप्राप्तेरिति चेत् --न । नायमेनप्प्रत्ययान्तः ।

किं तु तृतीयान्तः । उत्तरेण तोरणेनेत्यन्वय "[^72]इत्याहुः ।
 

ननु कथम् --
 
--
[^
73 ]तुलां यदारोहति दन्तवाससा इति ( कुमारसंभवे --५-३४)
 

कालिदासः ।
 
17
 

स्फुटोपमं भूतिसितेन शंभुना इति (शिशुपालवधे १-४)

माघश्च । अत्र तुल्यार्थैरंतुलोपमाभ्यां तृतीयान्यतरस्याम् (२-३-७२) इति सूत्रेण

(अतुलोपमाभ्यामिति निषेधात्) तृतीयायाः अप्राप्तत्वात् । अत्र तुलोपमाशब्द-

योरेव प्रयोगात् इति चेत् -- --उच्यते । अत्र सहयुक्तेऽप्रधाने (२-३-१६) इति

तृतीया । (सहशब्दप्रयोगाभावेऽपि तदर्थे गम्ये तस्याःसाधुत्वात् ।) उक्तं हि

विनापि तद्योगं तृतीया *[^74] ( सिद्धान्तकौमुद्याम् ) इति ।
 

यथा--

स्ववालभारस्य तदुत्तमाङ्गजैः स्वयं चमर्येव तुलाभिलाषिणः (नेंनैषधे
 

१- २५ )
 

श्रीहर्षप्रयोगे ।

अथ कथम्--

प्रभुर्बुभूषुर्भुवनत्रयस्य यः शिरोऽतिरागाद्दशमं चिकर्तिषुः (माघे १-४६)

इति माघः । अत्र नमः स्वस्तीति सूत्रेण (२-३-१६) चतुर्थी स्यात् । तस्मै प्रभव-

तीति ज्ञापकात् अलमिति पर्याप्त्यर्थग्रहणमिति व्याख्यानात्"[^75] । तेन प्रभुशब्दयोगे

चतुर्थी युक्तेति कथं भुवनत्रयस्येति षष्ठी--इति चेत् --सत्यम् ।<flag> स एषां ग्रामणीर:
</flag>
(५-२-७८) इति सूत्रकारनिर्देशात् प्रभ्वादियोगे षष्ठ्यपि साधुरिति समा '[^76]दधुः ।
 

 
[^
72]. Mallinātha also notes this as an alternate interpretation. Perhaps by

āhuḥ our author is referring to Mallinātha.
 

[^
73]. Also see the Raghuvamśa: (VIII.15)
 

nabhasaā nibhṛtendunā tulām uditārkena samaāruroha tat.
 

[^
74]. See also the Kāsikā on 2.3.19. Haradatta, Mallinātha, Bhattṭṭoji and

others explain the trtiṛtīyaā with tulaā and upamaā in a different manner.

See

Padamanñjariī on 2.3.72 and Mallinātha on Raghu-VIII.15, on Māgha I.4,

and Kumāra– V.34.
 

[^
75]. See the Kāsikā on 2.3.16, and the S.K. on the same.
 

[^
76]. This is a reference to Bhattṭṭoji. See his S.K. on 2.3.16, and the

Mahābhāşya under 2.3.16, which is the source for others.