This page has not been fully proofread.

साहित्य कण्टकोद्धारः
 
अथ कथम् --
 
तत्त्रागारं धनपतिगृहादुत्तरेणास्मदीयम् (मेघसंदेशे २ ८ )
 
इति कालिदासः । अत्र उत्तरेणेत्येनप्प्रत्ययान्तयोगे धनपतिगृहादित्यत्र एनपा
द्वितीया (२-३-३१ इति सूत्रेण द्वितीयाप्राप्तेरिति चेत् --न । नायमेनप्प्रत्ययान्तः ।
किं तु तृतीयान्तः । उत्तरेण तोरणेनेत्यन्वय "इत्याहुः ।
 
ननु कथम् --
 
73 तुलां यदारोहति दन्तवाससा इति ( कुमारसंभवे --५-३४)
 
कालिदासः ।
 
17
 
स्फुटोपमं भूतिसितेन शंभुना इति (शिशुपालवधे १-४)
माघश्च । अत्र तुल्यार्थैरंतुलोपमाभ्यां तृतीयान्यतरस्याम् (२-३-७२) इति सूत्रेण
(अतुलोपमाभ्यामिति निषेधात्) तृतीयायाः अप्राप्तत्वात् । अत्र तुलोपमाशब्द-
योरेव प्रयोगात् इति चेत् -- उच्यते । अत्र सहयुक्तेऽप्रधाने (२-३-१६) इति
तृतीया । (सहशब्दप्रयोगाभावेऽपि तदर्थे गम्ये तस्याःसाधुत्वात् ।) उक्तं हि
विनापि तद्योगं तृतीया * ( सिद्धान्तकौमुद्याम् ) इति ।
 
यथा--
स्ववालभारस्य तदुत्तमाङ्गजैः स्वयं चमर्येव तुलाभिलाषिणः (नेंषधे
 
१- २५ )
 
श्रीहर्षप्रयोगे ।
अथ कथम्--
प्रभुर्बुभूषुर्भुवनत्रयस्य यः शिरोऽतिरागाद्दशमं चितिषुः (माघे १-४६)
इति माघः । अत्र नमः स्वस्तीति सूत्रेण (२-३-१६) चतुर्थी स्यात् । तस्मै प्रभव-
तीति ज्ञापकात् अलमिति पर्याप्त्यर्थग्रहणमिति व्याख्यानात्" । तेन प्रभुशब्दयोगे
चतुर्थी युक्तेति कथं भुवनत्रयस्येति षष्ठी--इति चेत् --सत्यम् । स एषां ग्रामणीर:
(५-२-७८) इति सूत्रकारनिर्देशात् प्रभ्वादियोगे षष्ठ्यपि साधुरिति समा 'दधुः ।
 
72. Mallinātha also notes this as an alternate interpretation. Perhaps by
āhuḥ our author is referring to Mallinātha.
 
73. Also see the Raghuvamśa: (VIII.15)
 
nabhasa nibhṛtendunā tulām uditārkena samaruroha tat.
 
74. See also the Kāsikā on 2.3.19. Haradatta, Mallinātha, Bhattoji and
others explain the trtiya with tula and upama in a different manner.
See
Padamanjari on 2.3.72 and Mallinātha on Raghu-VIII.15, on Māgha I.4,
and Kumāra– V.34.
 
75. See the Kāsikā on 2.3.16, and the S.K. on the same.
 
76. This is a reference to Bhattoji. See his S.K. on 2.3.16, and the
Mahābhāşya under 2.3.16, which is the source for others.