This page has been fully proofread once and needs a second look.

इति भारविः । अत्र भवस्य स्त्रीति विग्रहे पुंयोगादाख्यायामिति सूत्रेण
(४-१-४८) ङोषि इन्द्रवरुणेत्यादिसूत्रेण (४-१-४९) आनुकि च कृते भवानीपदेनैव
ईश्वरोपस्थितौ पतिशब्देन पुनस्तस्याः पत्यन्तरोपस्थितिः स्यात् इति चेत्--
सत्यम् । प्रमाद एवायमित्यालंकारिकाः[^64] । (शिवा भवानी रुद्राणी इत्यादि-
कोशात् भवानीशब्दस्य गौरीपर्यायतया योगरूढ्या संज्ञात्वेनैव पार्वतीवाचकत्वम् ।
तेन उमापति शब्दस्येव) भवानीपतिशब्दस्य ईश्वरवाचकत्वेन न दोष[^65] इत्येके ।
अथ कथम्--
कुवलयदलनीला कोकिला बालचूते इति ।
(वामनस्य काव्यालंकारसूत्रवृत्तावुदाहृतमिदम् ५-२-४६)
तरुणभुजगनीला सैव वेणी तदेत--
च्छ्रवणयुगमनङ्गन्यस्तडोलाद्वयाभम् । ( )
इति महावीरचरिते च ?
 
अत्र हि जानपदेतिसूत्रेण (४-१-४२) विहितस्य ङीषो वा संज्ञायामिति वार्ति-
केण संज्ञायामेवेति विकल्पनियमात् नीलादोषधौ प्राणिनि चेति वार्तिकरीत्या
ङोष् स्यात् (ततश्च नीली इति रूपेण भवितव्यम् ) इति चेत् --सत्यम् । प्रमाद
एवायमिति [^66]प्रामाणिकाः ।
 
अथ कथम्--
उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः इति ।
(आर्यशूरस्य जातकमालायाम्)
 
अत्र आम्रेडितयोगे बुद्धीनामित्यत्र
उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु ।
द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते ॥ इति वार्तिकीरीत्या
(१-४-४८) द्वितीयाप्राप्तेरिति चेत्--सत्यम् । अत्र उपर्युपरीति नाम्रेडितम् ।
किं तु उत्तानबुद्धीनाम् उपरि ईश्वरबुद्धयश्चरन्तीति व्याख्येयम् इत्याहुः[^67] ।
 
[^64]. See the K.P. the verse na trastam etc. quoted in the 7th chapter as an
example of viruddhamatikṛt.
[^65]. See Pūrṇasarasvatī on the word Bhavānīpati in the Mālatīmādhava
after verse IX. 3 (pp. 497-498, TSS).
[^66]. See Vāmana's K.A.S. V. 2.46 and the Vṛtti thereon.
 
[^67]. The verse from the Jātakamālā of Āryaśūra was quoted by Vāmana
in his K.A.S.V. (V.2.84). Durghaṭavṛtti explains uparibuddhīnām (bahuvrīhi )
as uttaralabuddhīnām, (II.3.2; p. 45). Bhaṭṭoji who also quotes this in his
P.M. (p. 872) explains the word as uttānabuddhīnām, and this is reproduced
by our author. The sāmīpya-dvirvacana by the rule 8.1.7 is regarded as the
one that governs the dvitīyā, according to the paribhāṣā lakṣaṇapratipadoktayoḥ
etc. Instead of having the sāmīpyadvirvacana, by having recourse to the