This page has not been fully proofread.

साहित्यकण्टकोद्धारः
 
इति भारविः । अत्र भवस्य स्त्रीति विग्रहे पुंयोगादाख्यायामिति सूत्रेण

(४-१-४८) ङोषि इन्द्रवरुणेत्यादिसूत्रेण (४-१-४६) आनुकि च कृते भवानीपदेनैव

ईश्वरोपस्थितौ पतिशब्देन पुनस्तस्याः पत्यन्तरोपस्थितिः स्यात् इति चेत् --
--
सत्यम् । प्रमाद एवायमित्यालंकारिका: काः[^64] । (शिवा भवानी रुद्राणी इत्यादि-

कोशात् भवानीशब्दस्य गौरीपर्यायतया योगरूढ्या संज्ञात्वेनैव पार्वतीवाचकत्वम् ।

तेन उमापति शब्दस्येव) भवानीपतिशब्दस्य ईश्वरवाचकत्वेन न दोष"[^65] इत्येके ।

अथ कथम्--

कुवलयदलनीला कोकिला बालचूते इति ।
 

(वामनस्य काव्यालंकारसूत्रवृत्तावृवुदाहृतमिदम् ५-२-४६ )

तरुणभुजगनीला सैव वेणी तदेत-
-
च्छ्रवणयुगमनङ्गन्यस्तडोलाद्वयाभम् ।
 
(
 
)
 

इति महावीरचरिते च ?
 

 
अत्र हि जानप देतिसूत्रेण (४-१-४२) विहितस्य ङीषो वा संज्ञायामिति वाति-
र्ति-
केण संज्ञायामेवेति विकल्पनियमात् नीलादोषधौ प्राणिनि चेति वार्तिकरीत्या

ङोष् स्यात् (ततश्च नीली इति रूपेण भवितव्यम् ) इति चेत् --सत्यम् । प्रमाद

एवायमिति "[^66]प्रामाणिकाः ।
 

 
अथ कथम्--

उपर्युपरि बुद्धीनां चरन्तीश्वरबुद्धयः इति ।
 
15
 

(आर्यशूरस्य जातकमालायाम्)
 
अत्र आम्रेडितयोगे बुद्धीनामित्यत्र
 
(आर्यशूरस्य जातकमालायाम्)
 

उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु ।
 

द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते ॥ इति वार्तिकीरीत्या

(१-४-४८) द्वितीयाप्राप्तेरिति चेत् --सत्यम् । अत्र उपर्युपरीति नाम्रेडितम् ।
 

किं तु उत्तानबुद्धीनाम् उपरि ईश्वरबुद्धयश्चरन्तीति व्याख्येयम् इत्याहुः"[^67]
 

 
[^
64]. See the K.P. the verse na trastam etc. quoted in the 7th chapter as an

example of viruddhamatikṛt.
 

[^
65]. See Pūrṇasarasvatiī on the word Bhavaniānīpati in the Maālatiīma ādhava

after verse IX. 3 ( pp. 497-498, TSS).
 

[^
66]. See Vāmana's K.A.S. V. 2.46 and the Vrtti thereon.
 

 
[^
67]. The verse from the Jatakamala of Aryaśūra was quoted by Vāmana

in his K.A.S.V. (V.2.84). Durghatavrtti explains uparibuddhānām (bahuvrihi )

as uttaralabuddhānām, (II.3.2; p. 45 ). Bhattoji who also quotes this in his

P.M. (p. 872) explains the word as uttānabuddhānām, and this is reproduced

by our author. The sāmāpya-dvirvacana by the rule 8.1.7 is regarded as the

one that governs the dvitiyā, according to the paribhäşă laksanapratipadoktayoḥ

etc. Instead of having the samipyadvirvacana, by having recourse to the