This page has been fully proofread once and needs a second look.

साहित्यकण्टकोद्धारः
 
वदन्ति । प्रमाद एवायमित्येके । केचित्तु <flag>ओर्गुण</flag> (६-४-१४६) इति ज्ञापकात्

संज्ञापूर्वको विधिरनित्य"[^57] इति न्यायेन प्राप्तोऽपि गुणो नेति वदन्ति ।
 

 
अथ कथम्
 

( रामाय रामभद्राय रामचन्द्राय वेधसे ।)
 

रघुनाथाय नाथाय सीतायाः पतये नमः ॥ इति (रामायणे )

नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ ।
 

 
इति पराशरश्च ।
 
13
 

 
अन्यत्र पतिना"[^58] सह - --इति स्मृतिश्च ।
 

 
अत्र पतिः समास एव (१-४-८) इति सूत्रे एवकारेण समासे एव घिसंज्ञा न

तु केवलस्येत्यर्थनियमात् प्रकृते च समासाभावात् घिसंज्ञायाः अभावे कथं (पतिना)

पतये पतोतौ इत्यादि रूपम् इति चेत् --सत्यम् । पतिरित्याख्यातः पतिरित्याख्या-

तार्थण्यन्तात् टिलोपे अच इ: ( उणादिसूत्रम्-५७८) इत्यौणादिके इप्रत्यये रूप-

सिद्धिः । न च भक्षितेऽपि लशुने न शान्तो रोगः इति न्यायेन अत्रापि (पतिशब्दे)

स पूर्वपक्षः संभवतीति वाच्यम् । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव[^59] ग्रहणम्

इति परिभाषया प्रतिपदोक्तस्यैव ग्रहणात् । न तु लाक्षणिकस्य । पातेर्डेतिः

(उणादिसूत्रम् -- ४७) इतिसूत्रनिष्पन्नस्य प्रतिपदोक्तत्वात् । इप्रत्ययान्त-

शब्दस्य लाक्षणिकत्वात् (पतिः समास एव इति) सूत्रे न ग्रहणम् । तथा च शेषो

ध्यसखि (१-४-७) इति सूत्रेण घिसंज्ञायाः सत्त्वात् रूपाणामेतेषां

साधुत्वम् इति

समादधुः । एतेन
 

सखिना वानरेन्द्रेण -- --इति रामायणम्

कृष्णस्य सखिरर्जुन:-- इति भारतं च व्याख्यातम्[^60]
 

 
[^
57]. See the Kāsikā on 6.4.146, and the S.K. of Bhattṭṭoji. There is a differ-

ence of opinion about the Paribhäşãāṣā, which is rejected by Näāgeśa. See his

Paribh. Our author does not refer to Näāgeśa's rejection of this Paribhāṣā.

Perhaps the Paribhāṣendusekhara had not yet become known by the time of our

author. See Note 205 and the Introduction on the date of the author. See

also previous Note for my opinion on hari hari.
 

[^
58]. These examples: sītāyāh pataye, and patite patau are quoted by Bhattṭṭoji

also. See his P.M. p. 502.
 

Durghatavrtti gives two other examples (under 1.4.8) :
 

patină niā nīyamaānāyāḥ,
 
and patau jiīvati yaā nārī etc.
 

 
These are also quoted in the Amarapadapaārijaāta, with a reference to Subhuti-
ti

ṭī
kā. See the commentary on the Amarakośa (Adyar Publication, p. 382).
 

[^
59]. See the Paribhāşendusṣenduśekhara for the paribhāsā.
ṣā.
[^
60]. This is also noted by Bhattṭṭoji (Ibid. p. 502).