This page has not been fully proofread.

विज्ञानशतकम् ।
आयुर्वेद
विदां रसाशनवतां पथ्याशिनां यत्नतो
वैद्यानामपि रोगजन्म वपुषो ह्यन्तर्यतो दृश्यते ।
दुश्चक्षुःकवलीकृतत्रिभुवनो लीलाविहारस्थितः
 
सर्वोपायविनाशनैकचतुरः कालाय तस्मै नमः ॥ ९९ ॥ ( ६६ )
 
ते धन्या भुवने सुशिक्षितपरब्रह्मात्मविद्या जना
लोकानामनुरञ्जका हरिकथापीयूषपानप्रियाः ।
"येषां नाकतरङ्गिणीतटशिलाबद्धासनानां सतां
 
प्राणा यान्ति लयं सुखेन मनसा श्रीरङ्ग चिन्ताभृताम् ॥ १०० ॥ (३७)
हे पुत्रा व्रजताभयं यत इतो गेहं जनन्या समं
रागद्वेषमदादयो भवतु वः पन्थाः शिवोऽमायया ।
काशीं सांप्रतमागतोऽहमह ह क्लेशेन हातुं वपुः
 
सर्वानर्थगृहं सुपर्वतटिनी वीचिश्रिया मण्डितम् ॥ १०१ ॥ ( ३ )
यत्साक्षादभिधातुमक्षमतया शब्दाद्यनालिङ्गितं
 
कूटस्थं प्रतिपादयन्ति विलयद्वारा प्रपञ्चस्रजः ।
मोक्षाय श्रुतयो निरस्तविधयो ध्यानस्य चोच्छित्तये
 
तत्राद्वैतवने सदा विचरताच् चेतःकुरंगः सताम् ॥ १०२ ॥ ( ३१ )
बुधानां वैराग्यं सुघटयतु वैराग्यशतकं
 
गृहस्थानामेकं हरिपदसरोजप्रणयिनाम् ।
जनानामानन्दं वितरतु नितान्तं सुविशद-
त्रयं शेषव्याख्यागलिततमसां शुद्धमनसाम् ॥ १०३ ॥
 
॥ इति श्री भर्तृहरिविरचितं विज्ञानशतकं चतुर्थम् ॥
 
99 ) N दुश्चक्षोत्कवली. 102 2 ) B [s ] ज्ञानस्य ( for ध्यानस्य ).
 
'Omitted in B.
 
२२५
 
२९ भ. सु.
 
103