2023-07-25 06:17:44 by jayusudindra
This page has been fully proofread once and needs a second look.
आयुर्वेदविदां रसाशनवतां पथ्याशिनां यत्नतो
वैद्यानामपि रोगजन्म वपुषो ह्यन्तर्यतो दृश्यते ।
दुश्चक्षुःकवलीकृतत्रिभुवनो लीलाविहारस्थितः
सर्वोपायविनाशनैकचतुरः कालाय तस्मै नमः ॥ ९९ ॥ ( ६६ )
ते धन्या भुवने सुशिक्षितपरब्रह्मात्मविद्या जना
लोकानामनुरञ्जका हरिकथापीयूषपानप्रियाः ।
येषां नाकतरङ्गिणीतटशिलाबद्धासनानां सतां
प्राणा यान्ति लयं सुखेन मनसा श्रीरङ्गचिन्ताभृताम् ॥ १०० ॥ (३७)
हे पुत्रा व्रजताभयं यत इतो गेहं जनन्या समं
रागद्वेषमदादयो भवतु वः पन्थाः शिवोऽमायया ।
काशीं सांप्रतमागतोऽहमह ह क्लेशेन हातुं वपुः
सर्वानर्थगृहं सुपर्वतटिनीवीचिश्रिया मण्डितम् ॥ १०१ ॥ ( ३ )
यत्साक्षादभिधातुमक्षमतया शब्दाद्यनालिङ्गितं
कूटस्थं प्रतिपादयन्ति विलयद्वारा प्रपञ्चस्रजः ।
मोक्षाय श्रुतयो निरस्तविधयो ध्यानस्य चोच्छित्तये
तत्राद्वैतवने सदा विचरताच् चेतःकुरंगः सताम् ॥ १०२ ॥ ( ३१ )
बुधानां वैराग्यं सुघटयतु वैराग्यशतकं
गृहस्थानामेकं हरिपदसरोजप्रणयिनाम् ।
जनानामानन्दं वितरतु नितान्तं सुविशद-
त्रयं शेषव्याख्यागलिततमसां शुद्धमनसाम् ॥ १०३ ॥
॥ इति श्री भर्तृहरिविरचितं विज्ञानशतकं चतुर्थम् ॥

॥ इति श्री