This page has not been fully proofread.

विज्ञानशतकम् ।
निष्कामा मुनयः परावरहशो निर्धूतपापोदया
निःसङ्गा निरहंकृता निरुपमानन्दं परं लेभिरे ।
यद्गत्वा न लुठन्ति मातृजठरे दुःखाकरे मानवा:
दुर्गन्धे पुनरेत्य काममकरे संसारपाथोनिधौ ॥ ८४ ॥ (२८)
कामस्यापि निदानमाहुरपरे मायां महाशासना
निश्चित्कां सकलप्रपञ्चरचनाचातुर्यलीलावतीम् ।
यत्सङ्गाद् भगवानपि प्रभवति प्रत्यमहामोहहा
 
श्रीरङ्गो भवनोदयावनलयव्यापारचक्रेऽक्रियः ॥ ८५ ॥ (२१ )
तुल्यार्थेन त्वमैक्यं त्रिभुवनजनकस् तत्पदार्थः प्रपद्य
प्रत्यक्षं मोहजन्म त्यजति भगवति त्वंपदार्थोऽपि जीवः ।
श्रुत्याचार्य प्रसादान निरुपमविलसद्ब्रह्म विद्यस्तदैक्यं
 
प्राध्यानन्दप्रतिष्ठो भवति विगलितानाद्यविद्योपरीहः ॥ ८६ ॥ (३२)
संन्यासो विहित केशवपदद्वन्द्वे व्यधायि श्रुता
वेदान्ता निस्वधनिष्कल परानन्दाः सुनिष्ठाश्चिरम् ।
संसारे वधबन्धदुःखबहुले मायाविलासेऽव्ययं
 
ब्रह्मासीति विहाय नान्यदधुना कर्तव्यमास्ते क्वचित् ॥ ८७ ॥ (३५)
हित्वा विश्वाद्यवस्थाः प्रकृतिविलसिता जाग्रदाद्यैविशेषः
सार्धं चैतन्यधात प्रकृतिमपि समं कार्यजातैरशेषैः ।
"ज्ञानानन्दं तुरीयं विगलितगुणकं देशकालाद्यतीतं
स्वात्मानं वीतनिद्रः सततमधिकृतश् चिन्तयेदद्वितीयम् ॥८८॥ (३४)
 
*
 
अग्रे पश्चादधस्तादुपरि च परितो दिक्षु चान्यास्वनादिः
कूटस्था संविदेका सकलतनुभृतामन्तरात्मानियत्री ।
यस्थानन्दस्वभावा स्फुरति शुभधियः प्रत्यहं निष्प्रपञ्चा
 
जीवन्मुक्तः स लोके जयति गतमहामोह विश्वप्रपञ्चः ॥ ९० ॥ ( ३६ )
काहं ब्रह्मेति विद्या निरतिशयसुखं दर्शयन्ती विशुद्धं
 
कूटस्थं स्वप्रकाशं प्रकृतिसुचरिता खण्डयन्ती च मायाम् ।
क्वाविद्याहं ममेति स्थगितपरसुखा चित्तभित्तौ लिखन्ती
 
सर्वानर्थाननर्थान् विषयगिरिभुवा वासनागैरिकेण ॥ ९१ ॥ (२६)
 
85 ) N महाशासना (:).
90
 
Lacuna in N for 89.
 
B कूटस्थ (for कूटस्थं).
 
२२३
 
C
 
d) N चक्रे क्रिया:. 86 2 ) B नाद्यविद्यो निरीहः.
 
O
 
b)
 
a.
 
4 ) ?.
a) IB गिरिभवा.
 
N धान्या (for चान्या
 
) ? .
 
c.
 
9 1 ) B काहं.