This page has been fully proofread once and needs a second look.

विज्ञानशतकम् ।
निष्कामा मुनयः परावरदृशो निर्धूतपापोदया

निःसङ्गा निरहंकृता निरुपमानन्दं परं लेभिरे ।

यद्गत्वा न लुठन्ति मातृजठरे दुःखाकरे मानवा:

दुर्गन्धे पुनरेत्य काममकरे संसारपाथोनिधौ ॥ ८४ ॥ (२८)

 
कामस्यापि निदानमाहुरपरे मायां महाशासना
नां
निश्चित्कां सकलप्रपञ्चरचनाचातुर्यलीलावतीम् ।

यत्सङ्गाद् भगवानपि प्रभवति प्रत्यङ्महामोहहा
 

श्रीरङ्गो भवनोदयावनलयव्यापारचक्रेऽक्रियः ॥ ८५ ॥ (२१ )

 
तुल्यार्थेन त्वमैक्यं त्रिभुवनजनकस् तत्पदार्थः प्रपद्य

प्रत्यक्षं मोहजन्म त्यजति भगवति त्वंपदार्थोऽपि जीवः ।

श्रुत्याचार्य प्रसादान् निरुपमविलसद्ब्रह्म विद्यस्तदैक्यं
 

प्राध्प्यानन्दप्रतिष्ठो भवति विगलितानाद्यविद्योपरीहः ॥ ८६ ॥ (३२)

 
संन्यासो विहितस् केशवपदद्वन्द्वे व्यधायि श्रुता

वेदान्ता निस्वद्यनिष्कल परानन्दाः सुनिष्ठाश्चिरम् ।

संसारे वधबन्धदुःखबहुले मायाविलासेऽव्ययं
 

ब्रह्मासीस्मीति विहाय नान्यदधुना कर्तव्यमास्ते क्वचित् ॥ ८७ ॥ (३५)

 
हित्वा विश्वाद्यवस्थाः प्रकृतिविलसिता जाग्रदाद्यैर्विशेषः
षैः
सार्धं चैतन्यधातौ प्रकृतिमपि समं कार्यजातैरशेषैः ।

"ज्ञानानन्दं तुरीयं विगलितगुणकं देशकालाद्यतीतं

स्वात्मानं वीतनिद्रः सततमधिकृतश् चिन्तयेदद्वितीयम् ॥८८॥ (३४)
 
*
 

 
अग्रे पश्चादधस्तादुपरि च परितो दिक्षु चान्यास्वनादिः

कूटस्था संविदेका सकलतनुभृतामन्तरात्मानियन्त्री ।
यस्था

यस्या
नन्दस्वभावा स्फुरति शुभधियः प्रत्यहं निष्प्रपञ्चा
 

जीवन्मुक्तः स लोके जयति गतमहामोह विश्वप्रपञ्चः ॥ ९० ॥ ( ३६ )
का

 
क्वा
हं ब्रह्मेति विद्या निरतिशयसुखं दर्शयन्ती विशुद्धं
 

कूटस्थं स्वप्रकाशं प्रकृतिसुचरिता खण्डयन्ती च मायाम् ।

क्वाविद्याहं ममेति स्थगितपरसुखा चित्तभित्तौ लिखन्ती
 

सर्वानर्थाननर्थान् विषयगिरिभुवा वासनागैरिकेण ॥ ९१ ॥ (२६)
 
85 ) N महाशासना (:).
90
 
Lacuna in N for 89.
 
B कूटस्थ (for कूटस्थं).
 
२२३
 
C
 
d) N चक्रे क्रिया:. 86 2 ) B नाद्यविद्यो निरीहः.
 
O
 
b)
 
a.
 
4 ) ?.
a) IB गिरिभवा.
 
N धान्या (for चान्या
 
) ? .
 
c.
 
9 1 ) B काहं.