This page has been fully proofread once and needs a second look.

२१४
 
भर्तृहरिसुभाषितसंग्रहे
यमाराध्याराध्यं त्रिभुवनगुरोराप्त वसतिर्

ध्रुवो ज्योतिश्चक्रे सुचिरमनवद्यं शिशुरपि ।

अवाप प्रह्लादः परमपदमाराध्य यमितः
 

स कस्यालं कुक्लेशो हरति न हरिः कीर्तितगुणः ॥ १९ ॥ (८)

 
कदाचित् कष्टेन द्रविणमधमाराधनवशान्
 

मया लब्धं स्तोकं निहितमवनौ तस्करभयात् ।

ततो नित्ये कश्चित् क्वचिदपि तदाखुर्बिलगृहेऽ-

नयल्लब्धोऽध्प्यर्थो न भवति यदा कर्म विपमम् ॥ २० ॥ (७१)

 
जगाम व्यर्थं मे बहुदिनमथार्थार्थिततया
 

कुभूमीपालानां निकटगतिदोषाकुलमतेः ।

हरिध्यानव्यग्रं भवितुमधुना वाञ्छति मनः

क्वचिद् गङ्गातीरे तरुणतुलसी सौरभरे ॥ २१ ॥ (५६)

 
कदा भागीरथ्या भवजलधिसंतारतरणेः
 

स्खलद्वीचीमालाचपलतल विस्तारितमुदः ।

तमःस्थाने कुञ्जे क्वचिदपि निविश्याहृतमना

भविष्याम्येकाकी नरकमथने ध्यानरसिकः ॥ २२ ॥ ( ८५ )

 
कदा गोविन्देति प्रतिदिवसमुल्लास मिलिताः
 

सुधाधाराप्रायास् त्रिदशत टिनीवीचिमुखरे ।

भविष्यन्त्येकान्ते क्वचिदपि निकुञ्जे मम गिरो
 

मरालीचक्राणां स्थितिसुखरवाक्रान्त पुलिने ॥ २३ ॥ ( ८६ )
 

 
यदध्यस्तं सर्वं स्रजि भुजगवद् भाति पुरतो
 

महामायोद्गीर्णं गगनपवनाद्यं तनुभृताम् ।
 
1
 

भवेत् तस्या भ्रान्तेर्मुररिपुर धिष्ठानमुदये
 

यतो न स्याद् भ्रान्तिर्निरधिकरणा काक्वापि जगति ॥ २४ ॥ ( २२ )
 

 
चिदेव ध्यातव्या सततमनवद्या सुखतनु
 
र्
निराधारा नित्या निरवधिरविद्यादिरहिता ।
 

अनास्थामास्थाय भ्रमवपुषि सर्वत्र विषये
 

सदा शेषव्याख्या निपुणमतिभिः ख्यातयतिभिः ॥ २५ ॥ (३०)
 
19
 
नैजे (for नित्ये).
B संसारतरणे:.
 
B उदय ( for उदये ).
 
*) B गुरुं प्राप वसातें (tor गुरोराप्तवसतिर् ). - ) Bअनवद्यां. 20 ) B
21 " ) B मथाथाथि तनया: 4) ]} निकटमतिदोषा.
श्रुति ( for स्थिति ).
 
22 ")
 
23 ") B मिलितः.
 
4 ) 1}
 
24 °)