This page has not been fully proofread.

विज्ञानशतकम् ।
विपश्चिद् देहादौ क्वचिदपि ममत्वं न कुरुते
परब्रह्मध्याता गगननगराकारसदृशे ।
निरस्ताहंकारः श्रुतिजनित विश्वासमुपितो
 
निरातङ्कोऽव्यग्रः प्रकृतिमधुरालापचतुरः ॥ १२ ॥
 
अरे चेतश् चित्रं भ्रमसि यदपास्य प्रियतमं
 
मुकुन्दं पार्श्वस्थं पितरमपि मान्यं सुमनसाम् ।
बहि: शब्दाद्यर्थे प्रकृतिचपले क्लेशवहुले
 
न ते संसारेऽस्मिन् भवति सुखदाद्यापि विरतिः ॥ १३ ॥ (७६)
न जानीषे मूर्ख क्वचिदपि हितं लोकमहितं
भ्रमद्भोगाकाङ्क्षाकलुपिततया मोहबहुले ।
जगत्यत्रारण्ये प्रतिपदमनेकापदि सदा
 
हरिध्याने व्यग्रं भव सकलतापैककदने ॥ १४ ॥ (४८)
विद्भूतं भूतं यदवनलभं ( १ ) चाखिलमिदं
 
महामायासङ्गाद् भुजग इव रज्वां भ्रमकरम् ।
तदत्यन्ताह्मदं यजरममरं चिन्तय मनः
 
परब्रह्माव्यग्रं हरिहरसुराद्यैरवगतम् ॥ १५ ॥ (२३)
न चेत् ते सामर्थ्य भवनमरणातङ्कहरणे
मनोऽनिर्दिष्टेऽस्मिन्नपगतगुणे ज्ञातुमकले ।
तदा मेघश्यामं कमलदलदीर्घाक्षममलं
 
भजस्व श्रीरङ्गं शरदमृतधामाधिकमुखम् ॥ १६ ॥
क यातः कायातो द्विज कलयसे रत्नमटवीम्
 
अटन व्याघ्राघातो मरणमगमद् विश्वमहितः ।
अयं विद्यारामो मुनिरह ह केनापि विदुपा
 
न खल्वात्मप्रायो भवतु सुकरो ज्ञातुमशिवः ॥ १७ ॥ (*)
 
अहं श्रान्तोऽध्वानं बहुविधमतिक्रम्य विषमं
धनाकाङ्क्षाक्षिप्तः कुनृपतिमुखालोकनपरः ।
इदानीं केनापि स्थितिमुदरकूपस्य भरणे
 
कदनेनारण्ये कचिदपि समीहे स्थिरमतिः ॥ १८ ॥ (७७)
 
२१३
 
12 ) B विश्वाससुभगो. 14 a) B चेतः ( for मूर्ख ).
स्पृथ्वीवायुज्वलनजलजं' चाखि - ') N विजरममरं.
17 Omitted in B.
 
15 ") B विय
16 ) N अवगत- ( for अपगत ).