This page has been fully proofread once and needs a second look.

विज्ञानशतकम् ।
विपश्चिद् देहादौ क्वचिदपि ममत्वं न कुरुते

परब्रह्मध्याता गगननगराकारसदृशे ।

निरस्ताहंकारः श्रुतिजनित विश्वासमुपिषितो
 

निरातङ्कोऽव्यग्रः प्रकृतिमधुरालापचतुरः ॥ १२ ॥
 

 
अरे चेतश् चित्रं भ्रमसि यदपास्य प्रियतमं
 

मुकुन्दं पार्श्वस्थं पितरमपि मान्यं सुमनसाम् ।

बहि: शब्दाद्यर्थे प्रकृतिचपले क्लेशहुले
 

न ते संसारेऽस्मिन् भवति सुखदाद्यापि विरतिः ॥ १३ ॥ (७६)

 
न जानीषे मूर्ख क्वचिदपि हितं लोकमहितं

भ्रमद्भोगाकाङ्क्षाकलुपिषिततया मोहबहुले ।

जगत्यत्रारण्ये प्रतिपदमनेकापदि सदा
 

हरिध्याने व्यग्रं भव सकलतापैककदने ॥ १४ ॥ (४८)
वि

 
विय
द्भूतं भूतं यदवनलभं ( १ ) चाखिलमिदं
 

महामायासङ्गाद् भुजग इव रज्ज्वां भ्रमकरम् ।

तदत्यन्ताह्लादं ह्यजरममरं चिन्तय मनः
 

परब्रह्माव्यग्रं हरिहरसुराद्यैरवगतम् ॥ १५ ॥ (२३)

 
न चेत् ते सामर्थ्यं भवनमरणातङ्कहरणे

मनोऽनिर्दिष्टेऽस्मिन्नपगतगुणे ज्ञातुमकले ।

तदा मेघश्यामं कमलदलदीर्घाक्षममलं
 

भजस्व श्रीरङ्गं शरदमृतधामाधिकमुखम् ॥ १६ ॥

 
क्व
यातः काक्वायातो द्विज कलयसे रत्नमटवीम्
 

अटन् व्याघ्राघाघ्रातो मरणमगमद् विश्वमहितः ।

अयं विद्यारामो मुनिरह ह केनापि विदुपा
 

न खल्वात्मप्रायो भवतु सुकरो ज्ञातुमशिवः ॥ १७ ॥ (*)
 

 
अहं श्रान्तोऽध्वानं बहुविधमतिक्रम्य विषमं

धनाकाङ्क्षाक्षिप्तः कुनृपतिमुखालोकनपरः ।

इदानीं केनापि स्थितिमुदरकूपस्य भरणे
 
कद

कदन्
नेनारण्ये क्वचिदपि समीहे स्थिरमतिः ॥ १८ ॥ (७७)
 
२१३
 
12 ) B विश्वाससुभगो. 14 a) B चेतः ( for मूर्ख ).
स्पृथ्वीवायुज्वलनजलजं' चाखि - ') N विजरममरं.
17 Omitted in B.
 
15 ") B विय
16 ) N अवगत- ( for अपगत ).