This page has not been fully proofread.

विटवृत्तम् ।
 
यदि वा रक्तया दत्तं तथापि त्वं न शोभसे ।
 
अहं गोपायिता तस्य कस्योक्तं वा मया पुनः ॥ ७८ ॥
कोशात् तदप्यधिष्ठानं कर्तव्यं शुद्धचेतसा ।
शपथी हीनदोषाय कामिनीपूच्यते बुधैः ॥ ७९ ॥
नां पुरो देयो व्यवहारस तु कामिना ।
वेश्यां यो नातिसंघत्ते मूढोऽसाविति साध्यते ॥ ८० ॥
तदेवार्थयते येन पूर्वोक्तं नोत्तरं स्पृहा ।
यथार्थ व्यवहारज्ञा वेश्या भूयो न वक्ष्यते ॥ ८१ ॥
नासावा मरणादित्थं परित्यजति तं विटम् ।
उभयोस्त्यागजं दुःखं कः कुर्यादर्थमित्रयोः ॥ ८२ ॥
 
,
 
हितमिममुपदेशं कुर्वता लोकदृष्टिं मितमपरिमितार्थं यन्मयोपात्तमत्र ।
जनितयुवतिरागाः सन्तु पुण्येन तेन प्रतिहतरतिविघ्नाः प्राणिनः सौख्यभाज: ८३
जानकीवदनोल्लास हेतुं सेतुं बबन्ध यः ।
तत्पाद सेविनालेखि विटवृत्तं द्विजन्मनाम् ॥ ८४ ॥
 
॥ इति विटवृत्तम् ॥