This page has been fully proofread once and needs a second look.

विटवृत्तम् ।
 

 
यदि वा रक्तया दत्तं तथापि त्वं न शोभसे ।
 

अहं गोपायिता तस्य कस्योक्तं वा मया पुनः ॥ ७८ ॥

 
कोशात् तदप्यधिष्ठानं कर्तव्यं शुद्धचेतसा ।

शपथी हीनदोषाय कामिनीपूषूच्यते बुधैः ॥ ७९ ॥

 
<flag></flag>
नां पुरो देयो व्यवहारस् तु कामिना ।

वेश्यां यो नातिसंत्ते मूढोऽसाविति साध्यते ॥ ८० ॥

 
तदेवार्थयते येन पूर्वोक्तं नोत्तरं स्पृहा ।

यथार्थं व्यवहारज्ञा वेश्या भूयो न वक्ष्ञ्च्यते ॥ ८१ ॥

 
नासावा मरणादित्थं परित्यजति तं विटम् ।

उभयोस्त्यागजं दुःखं कः कुर्यादर्थमित्रयोः ॥ ८२ ॥
 
,
 

 
हितमिममुपदेशं कुर्वता लोकदृष्टिं मितमपरिमितार्थं यन्मयोपात्तमत्र ।

जनितयुवतिरागाः सन्तु पुण्येन तेन प्रतिहतरतिविघ्नाः प्राणिनः सौख्यभाज: ८३

 
जानकीवदनोल्लास हेतुं सेतुं बबन्ध यः ।

तत्पाद सेविनालेखि विटवृत्तं द्विजन्मनाम् ॥ ८४ ॥
 

 
॥ इति विटवृत्तम् ॥