This page has not been fully proofread.

२१०
 
भर्तृहरिसुभाषितसंग्रहे
 
यावद् ददाति नाशेषमहार्य पण्ययोषिताम् ।
तावदप्रियमप्येनं भुञ्जते प्रियवद् बलात् ॥ ६२ ॥
युगपद् बहु संप्राप्य वेश्या त्यजति कामिनम् ।
सपदि प्रियमप्येनं वैरं वा कुरुते ध्रुवम् ॥ ६३ ॥
दातव्यं मुखताम्बूलमप्रियेण प्रियेण वा ।
अवल्लमेन नात्यर्थं तदेवेष्टजनप्रियम् ॥ ६४ ॥
चयः शीतन्त्वचीमुस्तान्धूपोऽल्पो मुखवासकम् ।
पत्र खदिरसंयुक्तं तथा सर
। ६५ ।
 
विटैरेवं तु वामानामेतान्येवंविधानि तु ।
देशकालोपपन्नानि प्रीयते न च तद्वचः ॥ ६६ ।
ताम्बूलं मदिरा माल्यं सुगन्धं च विलेपनम् ।
अतिव्ययेन दातव्यं रतिकालोपयोगतः ॥ ६७ ॥
विटैरनेकवेश्याना मेकान्येवंविधानि तु ।
 
देशकालोपपन्नानि प्रियाण्येव न चाप्रियम् ॥ ६८ ॥
इमानि प्रायशस् तानि वेश्यास्वेवं प्रदापयेत् ।
सा मुञ्चत्यचिरात् सर्वमुपभोगं तदात्मनः ॥ ६९ ॥
प्रत्यागतेन संपर्क निर्विघ्नमभिवाञ्छता ।
 
न देयं गच्छताध्वानं योषितां पूर्वकल्पितम् ॥ ७० ॥
आलोकयति पन्थानं दास्यतीत्यागतः किल ।
रचयत्यादराद् वेणीं यदि नान्यैर्वशीकृता ॥ ७९ ॥
अपरित्यक्तमात्मानमिच्छता पण्ययोषिताम् ।
नित्यौपयोगिकं द्रव्यमात्मसारं प्रदर्शयेत् ॥ ७२ ॥
ग्राह्यं ग्रहणकं किंचिद् व्यपदेशेन केनचित् ।
हस्ते तिष्ठति तद्यावत् तावदन्यं न सेवते ॥ ७३ ॥
कुतश्चित् संप्रदश्यैव केयूरमकरादिकम् ।
कुट्टिन्या च सहोद्वारं तन्नाम्नैवाभिलेखयेत् ॥ ७४ ॥
वेश्यया सह संभोगं नीत्वा द्रव्यं तदात्मनः ।
कृत्वा तदवशिष्टेन [ देयं ] दत्त्वा प्रशस्यते ॥ ७५ ॥
यस्मिन् प्रार्थयते काले सुवर्णं पूर्वमर्पितम् ।
तद्विटस्यातिसंधातुं न्यायं तत्रेदमुत्तरम् ॥ ७६ ॥
स्वयं देयः स उद्धारस् तुल्यमत्राल्पयापि वा ।
सर्व च मातृनाम्नैव वणिजं किं न पृच्छसि ॥ ७७ ॥