This page has not been fully proofread.

विटवृत्तम् ।
 
रक्तः श्वसिति दीर्घाणि रक्तो लज्जां विमुञ्चति ।
नाकार्यमीक्षते रक्तोऽरक्तो यात्यपहास्यताम् ॥ १५ ॥
परतन्त्रः सदा रक्तश् चरणौ पण्ययोषिताम् ।
नापिताकुष्ठषत् कामी संस्पृष्टं लभते यदि ॥ १६ ॥
शेते मया यथा सार्ध सान्येनापि तथा यदि ।
 
हा हतोऽस्मीति संरक्तो ध्यायन्नित्थं न जीवति ॥ १७ ॥
क आलप्तः प्रियः कोऽस्याः कं ध्यायति कमीक्षते ।
इति चिन्ता न यस्यासीत् स पूज्य: पण्ययोषिताम् ॥ १८ ॥
सुप्तान्येन सहान्येयं वो मां संभावयिष्यति ।
 
न चेच् छो विततं किं स्यादिति ध्यायन् प्रियो भवेत् ॥ १९ ॥
सेवतेऽवसरप्राप्तावप्राप्तौ यो न दुःखितः ।
 
न दुःखाभिभवस् तस्य पण्यनारीषु जायते ॥ २० ॥
सुखोपायमशक्यं च यस्य चेष्टितमीदृशम् ।
नासावपैति मनसः स्त्रीणामा मरणादपि ॥ २१ ॥
नाकाले नानवसरे या मुन्ना दूतपूर्वकम् ।
वेश्यावेश्मनि कर्तव्यं नान्यत् कामुकसंनिधौ ॥ २२ ॥
नात्यन्तं दर्शयेद् दैयं न चात्यन्तमदर्शनम् ।
ईर्ष्याभावो न चात्यन्तं कोपो नात्यन्तमिष्यते ॥ २३ ॥
ईर्ष्याद्रि कुप्यते वेश्या प्रसङ्गाच् च विरज्यते ।
स्तब्धातिगमनाचू चापि दानादपि विलुप्यते ॥ २४ ॥
ग्राह्यं नाम न चान्यस्य कामुकस्य तदग्रतः ।
प्रसङ्गो नातिकर्तव्यं पूर्व किंचिन् न सूचिते ॥ २५ ॥
द्वेष्य: स्यात् सूचिताभावे प्रयात्यन्यत्र कौतुकम् ।
अकामा चान्यकामा च निद्राक्रान्तेक्षणापि वा ।
असंजातरतेच्छा च नाभियोज्याबला बलात् ॥ २६ ॥
आविष्करोति न स्नेहं रागं बध्नाति नो रते ।
अभियुक्ता तु मन्देच्छा सान्यकामा तु कामिनी ॥ २७ ॥
आलापयत्यकार्याणि किंचिदाख्याति वा स्वयम् ।
या न प्रयाति शयनं साप्यनुत्पन्नसस्पृहा ॥ २८ ॥
संचिन्तिता किमन्यं कं को वान्यो हृदये स्थितः ।
ज्ञातमेव मया त्वेष यथाहं न प्रियस् तव ॥ २९ ॥
 
२०७