This page has been fully proofread once and needs a second look.

२०२
 
भर्तृहरिसुभाषितसंग्रहे
 
हत्वा नृपं पंतिमवेक्ष्य भुजंगदष्टं देशान्तरे विधिवशाद् गणिकास्मि जाता ।

पुत्रं भुजंगमधिगम्य चितां प्रविष्टा शोचामि गोपगृहिणी कथमद्य तक्रम् ॥ ८१८

 
हरिद्रा गोरसं चूर्ण धान्यं कार्ष्णायसौषधम् ।

नैतेषां पाकदोषोऽस्ति तैलं लवणमैक्षवम् ॥ ८१९ ॥

 
हरेर्लीलावराहस्य दंष्ट्रादण्डः स पातु वः ।

हेमाद्रिकलसा यत्र धात्री छत्रश्रियं दधौ ॥ ८२० ॥

 
हासोऽस्थिसंदर्शनमक्षियुग्ममत्युज्ज्वलं तत् कलुषावसायाः ।

स्तनौ च पीनौ पिशितात्स्त्रपिण्डौ स्थानान्तरे किं नरकेन योषित् ॥ ८२१

 
हे कोकिल कुरु मौनं जलधरसमये हि पङ्किला भूमिः ।

विकसति कुटजकदम्बे वक्तार मेभेके क्व तेऽवसरः ॥ ८२२ ॥

 
हेमाम्भोरुहपत्तने परिमलस्तेयी वसन्तानिलस्
 

तत्रत्यैरिव यामिकैर्मधुकरैः प्रारब्धकोलाहलः ।

निर्यातस् त्वरितो व्रजन् निपतितः श्रीखण्डपङ्कद्रवैर्

लिप्सःतः केरलकामिनीकुचतटात् खञ्जः शनैर्गच्छति ॥ ८२३ ॥
 

 
{ SUPPLEMENT 1
 

 
अग्रे डम्ब करधृतडफः पार्श्वतो भण्डमाला

पृष्ठे वेश्या विलसतितरां कर्तरी धर्मतन्तो ।

इत्थं राजा प्रभवति यदा षिङ्गसंगानुरङ्गः
 

प्रत्यासन्नः प्रलपति गुणी किं विदध्मः क्व यामः ॥ ८२४ ॥

 
आमोदैम्स् ते दिशि दिशि गतैर्दूरमाकृष्यमाणा
 

साक्षाल् लक्ष्मीं तव मलयज द्रष्टुमभ्यागताः स्मः ।

किं पश्यामस् तव परिसरे नावकाशो द्विजिह्रैर्
 

व्याप्तोऽस्माकं भवतु भवतां स्वस्ति यामी वयं तु ॥ ८२५ ॥
 
818
 
NS1612. -
 
820 ASPI461 extra 4.
 
SRB. p. 362.21; SS. 23. 8; SMV. 8. 19.
-
819 ISM Gore144 V181,
821 Ady XXV-L-2 Ś41.
822 Wai2 extra10.
SSD 2 f. 228.
 
SR.B. p. 225 129 ( begins with अथ ); ST. 10. 2;
 
823 E2 S113 ( extra ). - ") परिमलस्तोयं; F S 107 - 8) अपि ( for इव ),
and भारब्ध (for प्रारब्ध ). ") त्वरया ( for चरितो).
 
4) लिप्ते पिच्छिलकेरलीकुच्चतटे.
SRB. p. 334 133; SRK. p. 174. 1 (Śp.); VS. 639; SU. 809 ( Akbari-
Kalidāsa ) ; BPS. f. 16b. 93.
 
SR.B. p. 18.25.
 
824
 
825
 
Q1f 12a, extra.
 
Q1 extra3. - B1S. 978 (366) Sp. 998; SRB. p. 237.52; SDK, 4. 51.2
 
( p. 261, Acalasimha ) ; SKM. 33. 24. All anthologies c) किं पश्यामः सुभग भक्तः
क्रीडति क्रोड एव ग्यालस्तुभ्यं भवतु कुशलं मुञ्च नः साधु ('ध-) यामः ॥