This page has been fully proofread once and needs a second look.

विधूतकेशा: परिलोलितस्रजः सुराङ्गनानां प्रविलुप्तचन्दनाः ।.
अतिप्रसङ्गाद् विहितागसो मुहुः प्रकम्पमीयुः सभया इवोर्मयः ॥ ७४८ ॥
 
विरुद्धस् तथ्यो वा भवतु वितथो वा यदि परं
प्रसिद्धः सर्वस्मिन् हरति महिमानं जनरवः ।
तुलोत्कीर्णस्यापि प्रकटनिहताशेषतमसो
रवेस् तादृक्तेजो न हि भवति कन्यां गत इति ॥ ७४९ ॥
 
विश्वासायतनं वि दलनं देवैः कृताराधनं
मुक्तेः पथ्यदनं जलाग्निशमनं व्याघ्रोरगस्तम्भनम् ।
यः संवननं समृद्विजननं सौजन्यसंजीवनं
कीर्ते: केलिवनं प्रभावभवनं सत्यं वचः पावनम् ॥ ७५० ॥
 
विषस्य विषयाणां च दूरमत्यन्तमन्तरम् ।
उपभुक्तं विषं हन्ति विषयाः स्मरणादपि ॥ ७५१ ॥
 
वीतरागभयक्रोधो मुक्तः सर्वमदै रिह ।
कदा शंभो भविष्यामि कर्मनिर्मूलनक्षमः ॥ ७५२ ॥
 
वृक्षं क्षीणफलं त्यजन्ति विहगा: शुष्कं सर: सारसा:
पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं वनान्तं मृगाः ।
निद्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं मन्त्रिणः
सर्वः कार्यवशंगतोऽभिरमते कस्यास्ति को वल्लभः ॥ ७५३ ॥
 
वृथाग्रे दशनो मुग्धे दष्टे वाधरपल्लवे ।
खण्डित ************पयोधरा ॥ ७५४ ॥
 
व्यङ्गं शरीरं सुभगं भटानां कपोलपाली मलिना गजानाम् ।
कुचेलता प्रोषितभर्तृकाणां दानाद् दरिद्रः सुभगत्वमेति ॥ ७५५ ॥