This page has been fully proofread once and needs a second look.

संकीर्णलोकाः ।
 
विधूतकेशा: परिलोलितस्रजः सुराङ्गनानां प्रविलुप्तचन्दनाः ।.

अतिप्रसङ्गाद् विहितागसो मुहुः प्रकम्पमीयुः सभया इवोर्मयः ॥ ७४८ ॥

 
विरुद्धस् तथ्यो वा भवतु वितथो वा यदि परं
 

प्रसिद्धः सर्वस्मिन् हरति महिमानं जनरवः ।

तुलोत्कीर्णस्यापि प्रकटनिहताशेषतमसो
 
?
 

रवेस् तादृक्तेजो न हि भवति कन्यां गत इति ॥ ७४९ ॥

 
विश्वासायतनं वि * * दलनं देवैः कृताराधनं
 

मुक्तेः पथ्यदनं जलाग्निशमनं व्याघोघ्रोरगस्तम्भनम् ।
*

यः संवननं समृद्विजननं सौजन्यसंजीवनं
 

कीर्ते: केलिवनं प्रभावभवनं सत्यं वचः पावनम् ॥ ७५० ॥

 
विषस्य विषयाणां च दूरमत्यन्त मन्तरम् ।

उपभुक्तं विषं हन्ति विषयाः स्मरणादपि ॥ ७५१ ॥

 
वीतरागभयक्रोधो मुक्तः सर्वमदै रिह ।

कदा शंभो भविष्यामि कर्म निर्मूलनक्षमः ॥ ७५२ ॥

 
वृक्षं क्षीणफलं त्यजन्ति विहगा: शुष्कं सर: सारसा:
.

पुष्पं पर्युषितं त्यजन्ति मधुपा दग्धं नान्तं मृगाः ।
'

निद्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं मन्त्रिणः

सर्वः कार्यवशंगतोऽभिरमते कस्यास्ति को वल्लभः ॥ ७५३ ॥

 
वृथाग्रे दशनो मुग्धे दष्टे वाधरपल्लवे ।
 
6
 

खण्डित ************पयोधरा ॥ ७५४ ॥

 
व्यङ्गं शरीरं सुभगं भटानां कपोलपाली मलिना गजानाम् ।

कुचेलता प्रोषितभर्तृकाणां दानाद् दरिद्रः सुभगत्वमेति ॥ ७५५ ॥
 

 
१९३
 
748 SR.B. p. 338.78 ( Bh. ).
 
749 A N50. – ') A1 (t by corr ). 3 प्रगटनिहता.
750 HU2145 N44 ( 33 ) .
 
751
 
Lim1485 V extra3.
 
BORI326 $100; Ujj6414 Ś104; GV82387 Ś exiral; Lim885/1$101;
BIS. 6225 Subhash 75; SRE. p. 158. 231 ( Candra-
gopin ) ; SBH. 3368 ( Candragopin ) ; SRH 196 3 ( Vyüsaśataka ) ; SS. 45.29;
SK. 6.245; SMV. 23. 20; JSV. 237. 3.
 
752 ISM Kalamkar692V55.
 
753 ISM Kalamkar195 V126.
Vänaryastaka 8. in Haeb. Kavyakal,
 
Koseg. II. 102; Śp. 1543 Subhāsh. 156; SRB. p. 178. 1013
 
BIS. 6246 (2883 ). Saptaratna 4.
 
'r.'
 
and Kavyas Nitisañk, 40. Pañc. ed.
 
754 F+ 8109.
 
755 GVS2387 N8; Bik3282 and Bar5199N7. a) in marg, orig. न
 
निन्द्यतामेत्यविभषणत्वम् ॥; Lim1485 extra f. 1b.
 
२५ भ. सु.
 
4.