This page has been fully proofread once and needs a second look.

रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः ।
इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त हन्त नलिनीं गज उज्ज़हार ॥ ७१२ ॥
 
रामस्य व्यसनं बलेर्नियमनं पाण्डोः सुतानां वनं
वृष्णीनां निधनं नलस्य विपदं भीष्मस्य शत्रोर्हतिम् ।
विष्णोर्वामनतां तथार्जुनवधं संचिन्त्य लङ्केश्वरं
सर्वं दैववशादुपैति पुरुषः कः कं परित्रायते ॥ ७१३ ॥
 
रामाणां रमणीयमूरुपुयुगलं स्वैरं नितम्बस्थली
पृथ्वीं चन्द्रविनिद्रमास्यमतुले नेत्रे स्तनौ प्रोन्नतौ ।
यद्येतानि जगत्रयीजयविधौ शस्त्राणि चेतोभुवः
सौख्यानि प्रलपन्तु हन्त कुधियः स्वेखेदासहिष्णून्यपि ॥ ७१४ ॥
 
रामोऽपि भर्ता गणको वशिष्ठः सूर्योऽभिषेकी शुभलग्नचन्द्रः ।
सुखं न भुक्तं परमेषु सीता न कर्मणः कोऽपि बली समर्थः ॥ ७१५ ॥
 
रामो येन विडम्बितोऽमृतमयश् चन्द्रः कलङ्कीकृतः
क्षाराम्भः सरितांपतिश् च नहुषः सर्पः कपाली हरः ।
माण्डव्यो वधशूलपीडिततनुर्भिक्षाभुजः पाण्डवा
नीतो येन रसातलं बलिरसौ तस्मै नमः कर्मणे ॥ ७१६ ॥
 
रुष्टे का परपुष्टे मन्दे का हन्त मारुते चर्चा ।
त्वयि गतवति हृदयेशे जीवनदातापि जीवनं हरति ॥ ७१७ ॥
 
रे दारिर्द्र्य नमस् तुभ्यं सिद्धोऽहं त्वत्प्रसादतः ।
अहं सर्वत्र पश्यामि न मां पश्यति कश्चन ॥ ७१८ ॥
 
रे रे कोकिल मा भज मौनं किंचिदुदञ्चय पञ्चमरागम् ।
नो चेत् त्वामिह को जानीते काककदम्बकपिहिते चूते ॥ ७१९ ॥