This page has not been fully proofread.

संकीर्णश्लोकाः ।
 
रक्तत्वं कमलानां सत्पुरुषाणां परोपकारित्वम् ।
असतां च निर्दयत्वं स्वभावसिद्धं त्रिषु त्रितयम् ॥ ७०२ ॥
रतेरिव निधानानि सुखानामिव राशयः ।
 
अमृतस्येव कुण्डानि निर्मिताः केन योषितः ॥ ७०३ ॥
रत्नाकरं सकलगर्भमशेषसारं त्यक्ता प्रयाति सरितस्तटहंसराजः ॥ ७०४ ॥
रत्नाकरे परिहता वसतिः किमन्यदङ्गीकृतः कठिनवेधनदुःखभारः ।
वृक्षोजकुम्भपरिरम्भणलोलुपेन किं किं न तेन विहितं बत मौक्तिकेन ॥७०५॥
रत्नाकरः किं कुरुते हि रत्तैर्विन्ध्याचलः किं करिभिः करोति ।
श्रीखण्डखण्डैर्मलयाचलः किं परोपकाराय सतां विभूतयः ॥ ७०६ ॥
रथ्यान्तश्वरतस् तथा घृतजरत्कन्थालवस्याध्वगैः
 
सत्रासं च सकौतुकं च सकृपं दृष्टस्य तैर्नागरैः ।
निर्जीवीकृतचित्सुधारसमुदा निद्राय माणस्य मे
 
निःशङ्क: करटः कदा करपुटी भिक्षां विलुश्चिष्यति ॥ ७०७ ॥
रम्यं हर्म्यतलं नवा सुनयना गुञ्जद्विरेफा लताः
प्रोन्मीलन्नवमालतीसुरभयो वाताः सचन्द्राः क्षपाः ।
यद्येतानि जयन्ति हन्त परितः शास्त्राण्यमोघानि मे
 
तद् भोः कीदृगसौ विवेकविभवः कीदृक् प्रबोधोदयः ॥ ७०८ ॥
राजते राजमानाया एष बिम्बाधरव्रणः ।
 
सुधां पीत्वेव कान्तेन तच्छेषोऽयं समुद्रितः ॥ ७०९ ॥
राजन्नमात्येषु पुरातनेषु चिरं स्थिरा तिष्ठति राज्यलक्ष्मीः ।
नूनं शरावेषु वनेषु चारि न्यस्तं समस्तं प्रलयं प्रयाति ॥ ७१० ॥
राजा दुर्जनसंपर्कात् सर्वं दहति तत्क्षणात् ।
सलिलं पतितं तप्ते तैले दन्दह्यते न किम् ॥ ७११ ॥
 
१८७
 
702 EN29; F1 N24. °) तु ( for च ) ; F+ N20 ; J1N84 ( & few letters
om. in 4 ). Bar5199N36; Bik3279 N13; Bik3280N26; Bik3278 and 3281N22.
BIS. 5690 (2578 ) Bhartr ed. Bohl. extra13. Haeb. 2. 22; SRB. p. 84.14;
SBH. 251. SS. 26. 26; PT. 1. 51. 703 Wai2 566. 704 Wai2 N88
( only the half sloka is given ).
 
705 Wai2 Ś99.
 
SRB. p. 246.22.
 
706 Meh V138; Bik3287 N extral.
 
in Haeb. 526. Kāvyakal. 12. Subhāsh. 107 ; SRB. p. 49 171.
 
707 RASB5592 ( Oriya ) V X-9.
 
BIS. 5705 (2584) Nitipradipal
 
Wedding
 
SRB. p. 370 88; SDK 5.60.3 (p.
 
708
 
317, Vallapa ).
SRB. p. 345, 45 ( Bh. ) ; Prabodhacandrodaya 1. 12,
709 H 999; F3 Ś100; F+ Ś108; BVB2Ś.01 (100); GVS 2387 S100; ISM
Kalamkar195 Ś99 (100) ; Meh $102.
 
SR.B. p. 328 2.
 
710 Bik3279V4. 711 Bar5199 N108.