This page has been fully proofread once and needs a second look.

भर्तृहरिसुभाषितसंग्रहे
 
ही
ह्रीमन्तः स्वगुण प्रशंसन विधावन्यस्तुतावुन्सुका
 

घिग् धात्रा कृपणेन येन न कृताः कल्पान्तदीर्घायुषः ॥ ६९५ ॥

 
येऽमी कूर्मकचाः सकङ्कणरणत्कर्णाटसीमन्तिनी-

हस्ताकर्षणलालनैव सुभगा: प्राप्ताः परामुन्नतिम् ।

तेऽमी संप्रति पापिनापि न भुजभ्राम्यं निशातक्षुरं
 

क्षुण्णाः क्षोणितले लुठन्ति पतिताः प्राप्ताः परार्ध्घ्या इव ॥ ६९६ ॥

 
येषां न विद्या न तपो न दानं ज्ञानं च शीलं न गुणो न धर्मः ।

ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश् चरन्ति ॥ ६९७ ॥

 
येषां वल्लभया समं क्षणमिव क्षिप्रं क्षपा क्षीयते
 

तेषां शीतकरः शशी विरहिणामुल्केव संतापकृत् ।

अस्माकं च न वल्लभा न विरहस् तेनोभयभ्रंशिनाम्

इन्दू राजति दर्पणाकृतिरसौ नोष्णो न वा शीतलः ॥ ६९८ ॥

 
येषामज्ञानमूढं प्रचरति न मनो गूढशास्त्रान्तराले

ते विद्वच्चक्रवाले परुषमपरुपंषं साट्टहासं हसन्तु ।

हंसानां वै हसन्तां मृदुसलिलतले कूजितं कृपकूले
 

भेकानां कारभाजः कति कति न वचो दुर्वचो व्याहरन्ति ॥ ६९९ ॥

 
योगेंद्रं [च] फलं ददातिमजरा राज्ञाय कस्मै पुनः

राज्ञेन दज एव भर्तुमु[म]नयः वंठायः कस्मै पुत्रः
नः।
वंठेन दज हिण्य पु[प]ण्ययुवती विप्राय वारस्त्रिय

विप्रेण दज एव देव सततं राज्ञं प्रदत्तं पुनः ॥ ७०० ॥

 
योऽन्तस्तत्त्वपरार्थसिद्धिविधनं जानात्यसौ पण्डितस्
 

तत्त्वे शाश्वतमर्जितं निरुपमं यो वेत्त्यसौ पण्डितः ।

संसारोत्तरणे विवेकपटुता यस्यास्त्यसौ पण्डितः
 

शेषाः कायविडम्बिनो विषयिणः सर्वे जनाः पण्डिताः ॥ ७०१ ॥
 
तिलकाः सन्तः कियन्तो जनाः 1; Sp. 248; SRB. p. 52 256; SRK. p. 11. 10
(Sphutasloka ). 696 BORI328 V141 ( 134 ).
 
697 WN13. BIS. 5573 (2525) Bhartr. ed. Bohl. extra3. lith. ed. I. 2.
12, II. 13 Galan 11. Vrddhaciun. 124. Subhash 154; SRB. p. 4032; SRK. P. 35.
10. (Sphutaśloka); SA 7 11 ( fol 10a ) ; Garudamahapurāņa 109.48 ( 4 only);
SS 6. 10; PT. 8 21; SMV 5.9.
 
d
 

 
698 Meh V154
 
Sp. 4106 ( Bhojaraja ); SRB p 369.77 ( Bhojaraja ).
699 HU2145V94 (76).
700 Bik3277 N1-2. (just before af faraufa; explanatary verse in
colloquial Sanskrit ).
 
701 RASB9510 V38; PU496 V25 (21), ") सूत्रपरार्थ. - ) जनाः खंडिताः