This page has not been fully proofread.

संकीर्ण श्लोकाः ।
 
गान्धवं गन्धसंयुक्तं ताम्बूलं भारती कथा ।
इष्टा भार्या प्रियं मित्रमपूर्वाणि दिने दिने ॥ ४८५ ॥
गृहपदमिदं धर्मारण्यं किमत्र विचित्रता
 
भवति मनसो यत्रासङ्गः स एव निबन्धनम् ।
चरमवयसि त्यक्त्वा गेहं वने वसता मया-
प्यधिगत इवापत्यस्नेहो लतासु मृगीषु च ॥ ४८६ ॥
ग्रामे ग्रामे कुटी शून्या भैक्ष्यमन्नं गृहे गृहे ।
मार्गे मार्गे जरद्वस्त्रं वृथा दैन्यं नृपे नृपे ॥ ४८७ ॥
चक्रं सेव्यं नृपः सेव्यो न सेव्यः केवलो नृपः ।
चक्रस्यापि विरोधेन वासः प्रेतत्वमागतः ॥ ४८८ ॥
चक्षुः संवृणु वक्त वीक्ष करणं वृक्ष: समाच्छाद्यतां
ऋद्य स्फूर्जमने
कभावचतुरं शृङ्गाररम्यं वचः ।
मन्ये ते नवनीतपिण्डसदृशा मूर्त्या भजन्ति स्त्रियं
 
मुग्धे किं परिवेदितेन वपुषा पाषाणकल्पा वयम् ॥ ४८९ ॥
चत्वारो धनदायादा धर्माग्निनृपतस्कराः ।
ज्येष्ठस्याषि विरोधेन त्रयं कूप्यंतनतिस ॥ ४९० ॥
[ चन्द्रः शो ] भति निर्मले च गगने तारा विचित्राम्बरे
हंस: शोभति-
पद्मपत्रसलिले वैडूर्यवर्णोदके ।
हार: शोभति कामिनीकुचवटे स्त्री चञ्चला यौवने
 
राजा शोभति मन्त्रिभिः परिवृते सिंहासने सुस्थितः ॥ ४९९ ॥
चपलतरतरङ्गै दूर मुत्सारितोऽपि
 
प्रथयति तव कीर्ति दक्षिणावर्तशङ्खः ।
परिकलय पयोधे विष्णुपादार्घयोग्यस्
 
तव निकटनिषण्णैः क्षुल्लकैः श्लाध्यता का ॥ ४९२ ॥
 
१५७
 
485 C 691 ; [C3 $96] ; ISM Kalamkar 195 $101 (102) ; Nag421 $100
SR.B.p. 159266.
 
486 _ D V146. – " ) किमत्र दिवी चिसतां (corrupt); BORI328 V166 ( 57 ) – * )
यत्रासंतः; Bik3279 V160 (56).
 
487 Ujj6414 V30.
 
488 HU2145N9 ( 4 ).
 
SRB. P• 146. 161 (ed var.); Śp. 1378 (e var.),
 
489 Pun 2127 and Bik
 
490 HU2145 N78 ( 1 ) corrupt.
श्रयः कुप्यन्ति बान्धवाः ) ; SRK. p. 237 67 ( Sphutasloka).
491 HU2145N123 (105).
 
492 Xa extra 4. Sp 1092; SRB p. 216. 21,
 
1027 V74; HU271 V75.
 
SR.B. p. 156 164 (od तेषां ज्येष्ठावमानेन
 
;