This page has been fully proofread once and needs a second look.

गतं तत् तारुण्यं युवतिहृदयाह्लादजनकं
व्यतीतः सौन्दर्यः समदकरिकुम्भौघदलनः ।
जरा निर्लज्जेयं शिरसि पदमुच्चैः कृतवती
परब्रह्मेदानीं जननमरणोच्छेदजनकम् ॥ ४७९ ॥
 
गंन्धाढ्यां नवमल्लिकां मधुकरस् त्यक्त्वा गतो यूथिकां
तां त्यक्त्वाशु गतः स चम्पकवनं तस्मात्सरोजं गतः ।
बद्धस् तत्र निशाकरेण सहसा रोदित्यसौ मन्दधीः
संतोषेण विना पराभवपदं पश्यन्ति सर्वे जनाः ॥ ४८० ॥
 
गर्भस्थं जातमात्रं शयनतलगतं मातुरुत्सङ्गसंस्थं
बालं वृद्धं युवानं परिणतवयसं विश्वमान्यं बलाढ्यम् ।
वृक्षाग्रे शैलशृङ्गे नभसि पथि जले कोटरे पञ्जरें वा
पाताले वा प्रविष्टं हरति च सततं दुर्विबाधः कृतान्तः ॥ ४८१ ॥
 
गर्व नोद्वहते न निन्दति परान् नो भाषते निष्ठुरं
प्रोक्तं केनचिदप्रियं च सहते क्रोधं न चालम्बते ।
श्रुत्वा काव्यमलक्षणं परकृतं संतिष्ठते मूकवद्
दोषांश् छादयते स्वयं न कुरुते ह्येतत् सतां लक्षणम् ॥ ४८२ ॥
 
गात्रं पात्रं प्रथमवयसि प्रेयसीनां स्तनानाम्
आश्लेषाणां तदिदमधुना वन्यमेतत् कृतार्थम् ।
येनासीने त्वयि गिरितटे श्लिष्टनासाग्रदृष्टौ
हर्षस्पर्श जहति हरिणश्रेणयः कायकण्डूः ॥ ४८३ ॥
 
गात्रैर्गिरा च विकलश् चटुमीश्वराणां कुर्वन्नयं प्रहसनस्य नटः कृतोऽसि ।
न त्वां पुनः पलितकर्णकभाजमेनं नाट्येन केन नटयिष्यति दीर्घमायुः ॥ ४८४ ॥