2023-02-16 14:50:36 by ambuda-bot
This page has not been fully proofread.
संकीर्णश्लोकाः ।
कियती पञ्चसहस्री कियती लक्षापि कोटिरपि कियती ।
औदार्योन्नतमनसां रत्नवती वसुमती कियती ॥ ४५८ ॥
कीर्तिस ते धनिका धनं मधुरिमा तस्याधमर्णा सुधा
शीतांशुप्रतिभूस् तदर्थनमियं कर्तुं दिवं धावति ।
सा लीना तव वाचि भोजनृपते चन्द्रो निरङ्गिध्वनिः
शङ्कातकभृदंशुकाटततनुर्नक्तं परिभ्रामति ॥ ४५९ ॥
कुचशैलसंनिधाने त्रिवलिनदीतीरे तन्वा : कुचचत्वरे चपले ।
दृश्यं छलयति पिशाचः पुरुषाणां हि मनागपि शवलितम् ॥ ४६० ॥
कृत्वोंकारप्रदीप मृगय गृहपति सूक्ष्मनाड्यन्तरस्थं
संयम्य द्वारवाई पवनपटुतरं नायकं चेन्द्रियाणाम् ।
वाग्जाल कस्य हेतोः प्रलपसि बहुधा दृश्यते नैव किंचिद्
देहस्थं पश्य नाथं भ्रमसि किमपरे शास्त्रजाले विशाले ॥ ४६१ ॥
कृशोऽपि धन्यः सुजनः सुबुद्धिमान् परोपकारार्थमिहार्थसंपदः ।
महापथावस्थितपादपः शुभः कृशोऽपि काष्ठाय फलान्वितः किमु ॥ ४६२ ॥
कृशोऽपि सिंहो न समो गजेन्द्रैः सत्त्वं प्रधानं न च मांसराशिः ।
अनेकवृन्दानि वने गजानां सिंहस्य नादेन मदं त्यजन्ति ॥ ४६३ ॥
कृष्णः करोतु कल्याणं कंस कुंअरकेसरी ।
कालिन्दीकूलकल्लोल कोलाहलकुतूहली ॥ ४६४ ॥
केषांचिन् निजवेश्मनि स्थितवतामालस्यवश्यात्मनां
१५३
दृश्यन्ते प[फ]लिता लता इंव चिरं संपन्नशाखाः श्रियः ।
अब्धि लहूयतां खनीः खनयतां क्षोणीतलं क्षुन्दताम्
अन्येषां व्यवसायसाहसधियां तन् नास्ति यत् पच्यते ॥ ४६५ ॥
कैवर्तकर्कशरग्रहविच्युतोऽसौ जाले पुनर्निपतितः शफरो वराकः ।
जालात् पुनर्विगलितोऽपि धृतो बकेन दैवाहतो व्रजति यत्र विपत्पुरस्तात् ॥४६६
;
458 BORI326580; VSP Ś101. SRB. p. 70, 23; SIV f 698 738;
SS. 17.48; SSV. 550.
459 J3 extra 4.
460Bik 3280 $102; Bik32795 98 ( 99 ) ; Pun1538 N100.
461 ISM Gore 144 V191; GVS2387 V69.
BVB5 V106 (extra); variant of 441.
463 AN46.
464
Wai2 N1.
465 103318 (with Hindi trans. by Indrajit) N64.
466 Bar 5199N31.
462 Sriñ309 N72.
BIS. 7504. Subhāsh. 109; SS.54 1.
JSV. 102. 1.
C) नटयसि ( for प्रलपसि ).
-
SR.B. p. 95.126.
BIS. 1918 (740) Pajic. ed. Koseg. II. 87. Subhash
68; SRB. p. 92.75; SRK. p. 219. 30 ( Kalpataru ) ; SG. f. 34&; SSD. 2. f. 52b.
२० भ. सु.