This page has been fully proofread once and needs a second look.

संकीर्णश्लोकाः ।
 
कियती पञ्चसहस्री कियती लक्षापि कोटिरपि कियती ।

औदार्योन्नतमनसां रत्नवती वसुमती कियती ॥ ४५८ ॥

 
कीर्तिस् ते धनिका धनं मधुरिमा तस्याधमर्णा सुधा

शीतांशुप्रतिभूस् तदर्थनमियं कर्तुं दिवं धावति ।

सा लीना तव वाचि भोजनृपते चन्द्रो निरङ्गिघ्रिध्वनिः

शङ्कार्तोकभृदंशुकावृततनुर्नक्तं परिभ्रामति ॥ ४५९ ॥

 
कुचशैलसंनिधाने त्रिवलिनदीतीरे तन्वा : कुचचत्वरे चपले ।

दृश्यं छलयति पिशाचः पुरुषाणां हि मनागपि शवलितम् ॥ ४६० ॥

 
कृत्वोंकारप्रदीपं मृगय गृहपतितिं सूक्ष्मनाड्यन्तरस्थं

संयम्य द्वारवाहं पवनपटुतरं नायकं चेन्द्रियाणाम् ।

वाग्जालं कस्य हेतोः प्रलपसि बहुधा दृश्यते नैव किंचिद्

देहस्थं पश्य नाथं भ्रमसि किमपरे शास्त्रजाले विशाले ॥ ४६१ ॥

 
कृशोऽपि धन्यः सुजनः सुबुद्धिमान् परोपकारार्थमिहार्थसंपदः ।

महापथावस्थितपादपः शुभः कृशोऽपि काष्ठाय फलान्वितः किमु ॥ ४६२ ॥

 
कृशोऽपि सिंहो न समो गजेन्द्रैः सत्त्वं प्रधानं न च मांसराशिः ।

अनेकवृन्दानि वने गजानां सिंहस्य नादेन मदं त्यजन्ति ॥ ४६३ ॥

 
कृष्णः करोतु कल्याणं कंस कुंञ्जरकेसरी ।

कालिन्दीकूलकल्लोल कोलाहलकुतूहली ॥ ४६४ ॥

 
केषांचिन् निजवेश्मनि स्थितवतामालस्यवश्यात्मनां
 
१५३
 

दृश्यन्ते प[फ]लिता लता इंव चिरं संपन्नशाखाः श्रियः ।

अब्धि लहूधिं लङ्वयतां खनीः खनयतां क्षोणीतलं क्षुन्दताम्
 

अन्येषां व्यवसायसाहसधियां तन् नास्ति यत् पच्यते ॥ ४६५ ॥

 
कैवर्तकर्कशरग्रहविच्युतोऽसौ जाले पुनर्निपतितः शफरो वराकः ।

जालात् पुनर्विगलितोऽपि धृतो बकेन दैवाहतो व्रजति यत्र विपत्पुरस्तात् ॥४६६
 
;
 
458 BORI326580; VSP Ś101. SRB. p. 70, 23; SIV f 698 738;
SS. 17.48; SSV. 550.
 
459 J3 extra 4.
 
460Bik 3280 $102; Bik32795 98 ( 99 ) ; Pun1538 N100.
461 ISM Gore 144 V191; GVS2387 V69.
 
BVB5 V106 (extra); variant of 441.
463 AN46.
 
464
 
Wai2 N1.
 
465 103318 (with Hindi trans. by Indrajit) N64.
466 Bar 5199N31.
 
462 Sriñ309 N72.
 
BIS. 7504. Subhāsh. 109; SS.54 1.
JSV. 102. 1.
 
C) नटयसि ( for प्रलपसि ).
 
-
 
SR.B. p. 95.126.
BIS. 1918 (740) Pajic. ed. Koseg. II. 87. Subhash
 
68; SRB. p. 92.75; SRK. p. 219. 30 ( Kalpataru ) ; SG. f. 34&; SSD. 2. f. 52b.
 
२० भ. सु.