This page has not been fully proofread.

संकीर्णश्लोकाः ।
 
असत्यम प्रत्यय
मूलकारणं कुवासनासझसमृद्धिवारणम् ।
विपन्निदानं परवञ्चनोर्जितं कृतापराधं कृतिभिर्विवर्जितम् ॥ ३८९ ॥
असारः संसार: सरसकदलीसारसदृशो
 
लसद्विद्युल्लेखाचकितचपलं जीवितमिदम् ।
यदेतत् तारुण्यं नगगतनदीवेगसदृशम्
 
अहो धायें पुंसां तदपि विषयान् धावति मनः ॥ ३९० ॥
 
असारे खलु संसारे सुखभ्रान्तिः शरीरिणाम् ।
लालापानमिवाङ्गुष्ठे बालानां स्तन्यविभ्रमः ॥ ३९१ ॥
असीव्यद् देहे वे पशुपतिरुमा समधनो
 
विगुप्तो गोपीभिर्दुहितरमयात् सा कमलभूः ।
यदादेशादेतज जंगदपि मृगीदृक्परवशं
 
स वश्यः कस्य स्यादहह विषमो मन्मथभरः ॥ ३९२ ॥
 
+
 
P
 
अहिरिव जनयोगं, सर्वदा वर्जयेद् यः
 
कुणमिव वसु नारीं त्यक्तकामो विरागी ।
विषमिव विषयार्थान् अन्यमानो दुरन्ताञ्
 
जयति परमहंसो मुक्तिभावं समेति ॥ ३९३ ॥
अहो अहीनामपि लेंहनं स्याद् दुःखानि नूनं नृपसेवनानि ।
एकोऽहिना दष्टर्मुपैति मृत्युं क्षमापेन दष्टस्तु सगोत्रमित्रः ॥ ३९४ ॥
आकाशमुत्पततु गच्छतु वा दिगन्तम्
 
अम्भोनिधिं विशतु तिष्ठतु वा यथेच्छम् ।
जन्मान्तरार्जितशुभाशुभंकुन्नराणां
 
छायेव गच्छति कर्म फलानुबन्धि ॥ ३९५ ॥
आत्मानं धर्मकृत्यं च पुत्रदारांश च पीडयन् ।
देवतातिथिभृत्यांश् च स कदर्य इति स्मृतः ॥ ३९६ ॥
 
389 HU 2145 N45 ( 33 ). • SRB. p. 53.2; SRK. p. 112 2 ( Kalpataru ).
390 ISM Gorel41 V193; GV82387 V61 and BVB5 V101 ( extra ) – *)
 
F
 
मतिः ( for मनः).
 
391 Gujarati PP. od. p. 164 V107. BPs. f. 42. 25.
 
392 E2 S110 ( extra ).
395 BORI 328 V83 (82).
 
p. 424. Nitisamk. 80; SRE. p. 92.73.
 
p. 77. 12 ( 11 ) (PT.). 396 ISM Kalamkar195 V90 ( 93 ).
 
393 X V69. 394 Bik 3279 V3.
 
BIS. 819 (3675). Santis 321 in Haeb,
 
d ) छायेव न त्यजति कर्मफलानुबन्धः; SRK,