This page has been fully proofread once and needs a second look.

संकीर्णश्लोकाः ।
 
असत्यम
असत्यमप्रत्यय
मूलकारणं कुवासनासद्मसमृद्धिवारणम् ।

विपन्निदानं परवञ्चनोर्जितं कृतापराधं कृतिभिर्विवर्जितम् ॥ ३८९ ॥

 
असारः संसार: सरसकदलीसारसदृशो
 

लसद्विद्युल्लेखाचकितचपलं जीवितमिदम् ।

यदेतत् तारुण्यं नगगतनदीवेगसदृशम्
 

अहो धायेंर्ष्ट्यमं पुंसां तदपि विषयान् धावति मनः ॥ ३९० ॥
 

 
असारे खलु संसारे सुखभ्रान्तिः शरीरिणाम् ।

लालापानमिवाङ्गुष्ठे बालानां स्तन्यविभ्रमः ॥ ३९१ ॥

 
असीव्यद् देहे स्वे पशुपतिरुमा समधङ्कं समघनो
 

विगुप्तो गोपीभिर्दुहितरमयात् सा कमलभूः ।

यदादेशादेतज् जंगदपि मृगीदृक्परवशं
 

स वश्यः कस्य स्यादहह विषमो मन्मथभरः ॥ ३९२ ॥
 
+
 
P
 

 
अहिरिव जनयोगं, सर्वदा वर्जयेद् यः
 

कुणमिव वसु नारीं त्यक्तकामो विरागी ।

विषमिव विषयार्थान् अन्यमानो दुरन्ताञ्
 

जयति परमहंसो मुक्तिभावं समेति ॥ ३९३ ॥

 
अहो अहीनामपि लेंलेहनं स्याद् दुःखानि नूनं नृपसेवनानि ।

एकोऽहिना दष्टर्मुपैति मृत्युं क्षमापेन दष्टस्तु सगोत्रमित्रः ॥ ३९४ ॥

 
आकाशमुत्पततु गच्छतु वा दिगन्तम्
 

अम्भोनिधिं विशतु तिष्ठतु वा यथेच्छम् ।

जन्मान्तरार्जितशुभाशुभंकुभकृन्नराणां
 

छायेव गच्छति कर्म फलानुबन्धि ॥ ३९५ ॥

 
आत्मानं धर्मकृत्यं च पुत्रदारांश् च पीडयन् ।

देवतातिथिभृत्यांश् च स कदर्य इति स्मृतः ॥ ३९६ ॥
 
389 HU 2145 N45 ( 33 ). • SRB. p. 53.2; SRK. p. 112 2 ( Kalpataru ).
390 ISM Gorel41 V193; GV82387 V61 and BVB5 V101 ( extra ) – *)
 
F
 
मतिः ( for मनः).
 
391 Gujarati PP. od. p. 164 V107. BPs. f. 42. 25.
 
392 E2 S110 ( extra ).
395 BORI 328 V83 (82).
 
p. 424. Nitisamk. 80; SRE. p. 92.73.
 
p. 77. 12 ( 11 ) (PT.). 396 ISM Kalamkar195 V90 ( 93 ).
 
393 X V69. 394 Bik 3279 V3.
 
BIS. 819 (3675). Santis 321 in Haeb,
 
d ) छायेव न त्यजति कर्मफलानुबन्धः; SRK,