This page has been fully proofread once and needs a second look.

भर्तृहरिसुभाषितसंग्रहे
 

 
GROUP III
 

 
[Stray verses from single versions, isolated Bhartr. MSS, and anthologies;

in alphabetical order; only a few variants have been reported.]
 

 
१३८
 

 
अकिंचनस्य दान्तस्य शान्तस्य समचेतसः ।

मया संतुष्टमनसः सर्वाः सुखमया दिशः ॥ ३५३ ॥
 

 
अक्रोधवैराग्यजितेन्द्रियत्वं क्षमादयाशान्तिजनप्रियत्वम् ।
 

निर्लोभदाता भयशोकहारी ज्ञानस्य चिह्नं भयलक्षणानि ॥ ३५४ ॥
 

 
अङ्गुल्यः पञ्चमे मासे दृष्टिकुक्षौ च षष्टमे ।
 

संचारः सप्तमे मासे अष्टमे नयनेषु च ॥ ३५५ ॥
 

 
अङ्गेन गात्रं नयनेन वक्त्रं न्यायेन राज्यं लवणेन भोज्यम् ।

धर्मेण हीनं खलु जीवितं च न राजते चन्द्रमसा विना निशा ॥ ३५६ ॥
 

 
अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् ।

यतस् तौ स्वल्पदुःखाय यावञ्जीवं जडो दहेत् ॥ ३५७ ॥

 
अज्ञं कर्माणि लिम्पन्ति तज्ज्ञं कर्म न लिम्पति ।

लिप्यते रसनैवैका सर्पिषा करवद् यथा ॥ ३५८ ॥

 
अज्ञानामवनी भुजामहरह: स्वर्णाभिषेकोत्सवाज्

ज्ञातुः श्रीयुवरङ्गभूपरसिकश्लायैघैव संमानना ।

सारासारविवेकशून्यरमणीसंभोगसाम्राज्यतः

सारज्ञेन्दुमुखीविलोककपटश्चातुर्यां ययूनां मुदे ॥ ३५९ ॥.

 
अज्ञेष्वज्ञो गुणिषु गुणवान् पण्डिते पण्डितोऽसौ
 

दीने दीनः सुखिनि सुखवान् भोगिनो भोगिभावः ।

ज्ञाता ज्ञातुर्युवतिषु युवा वाग्मिनां तत्त्ववेत्ता
 

 

धन्यः सोऽयं भवति भुवने योऽवधूतेऽवधूतः ॥ ३६० ॥

 
अत्र यत् पतितं वर्णविबिन्दुमात्राविसर्गकम् ।
 

भ्रमप्रमाददोषाद् हि क्षन्तव्यं तत् सुबुद्धिभिः ॥ ३६१ ॥
 
353 ISM Kalamkar195 V104 '( 107 ). BIS. 26 ( 3372 ).
354 BORI 326 V106 (105).
 
ed. I. 3. 100; SR.B. p. 75. 10.
355 Melh V147.
 
356 HU2115 N125 (107 ).
 
Bhartr. lith.
SL. f. 57s.
 
357 - SHVf 36a 170 ( JBh. ) ; SS.4916; SN. 626; SSD. 2. f. 142a; SV.
522; JSV. 209. 2.
 
358 Y2 N96. 359 J3 extra 2. 360 HU632 £.
361 ISM Gore144 V186.
 
8a ( marg. ).
 
SR.B.p. 178 1000 (मौने मौनी ).