This page has been fully proofread once and needs a second look.

एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः ।
कदा शंभो भविष्यामि कर्मनिर्मूलनक्षमः ॥ १८५ ॥
 
प्राप्ताः श्रियः सकलकामदुधास् ततः किं
दत्तं पदं शिरसि विद्विषतां ततः किम् ।
सन्मानिताः प्रणयिनो विभवैस् ततः किं
कल्पं स्थितं तनुभृतां तनुभिस् ततः किम् ॥ १८६ ॥
 
भक्तिर्भवे मरणजन्मभयं हृदिस्थं
स्नेहो न बन्धुषु न मन्मथजा विकाराः ।
संसर्गदोषरहिता विजना वनान्ता
वैराग्यमस्ति किमतः परमर्थनीयम् ॥ १८७ ॥