This page has been fully proofread once and needs a second look.

पुण्ये ग्रामे वने वा महति सितपटच्छन्नपालीं कपालीम्
आदाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकण्ठम् ।
द्वारं द्वारं प्रवृत्तो वरमुदरदरीपूरणाय क्षुधार्तो
मानी प्राणी स धन्यो न पुनरनुदिनं तुल्यकुल्येषु दीनः ॥१७९ ॥
 
एतस्मादू विरमेन्द्रियार्थगहनादायासकादाश्रयाच्
छ्रेयोमार्गमशेषदुःखशमनव्यापारदक्षं क्षणात् ।
शान्तं भावमुपैहि संत्यज निजां कल्लोललोलां गतिं
मा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना ॥ १८० ॥