This page has been fully proofread once and needs a second look.

विच्छिन्ने नितरामनङ्गकलहक्रीडात्रुटत्तन्तुकं
मुक्ताजालमिव प्रयाति झटिति भ्रश्यदृशो दृश्यताम् ॥ ७ ॥
 
NITI (8-76)
 
अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ।
ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ ८ ॥
 
प्रसह्य मणिमुद्धरेन् मकरवक्रदंष्ट्राङ्कुरात्
समुद्रमपि संतरेत् प्रचलदूर्मिमालाकुलम् ।
भुजंगमपि कोपितं शिरसि पुष्पवद् धारयेन्
न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ९ ॥