Original

मातर् लक्ष्मि भजस्व कञ्चिद् अपरं मत्काङ्क्षिणी मा स्म भूर्भोगेषु स्पृहयालवस् तव वशे का निःस्पृहाणाम् असि ।सद्यः स्यूतपलाशपत्रपुटिकापात्रैः पवित्रीकृतैर्भिक्षावस्तुभिर् एव सम्प्रति वयं वृत्तिं समीहामहे ॥ ९३ ॥

Segmented

मातः लक्ष्मि भजस्व कंचिद् अपरम् मद्-काङ्क्षिणी मा स्म भूः भोगेषु स्पृहयालवस् तव वशे का निःस्पृहाणाम् असि सद्यः सीव्-पलाश-पत्त्र-पुटिका-पात्रैः पवित्रीकृतैः भिक्षा-वस्तुभिः एव सम्प्रति वयम् वृत्तिम् समीहामहे

Analysis

Word Lemma Parse
मातः मातृ pos=n,g=f,c=8,n=s
लक्ष्मि लक्ष्मी pos=n,g=f,c=8,n=s
भजस्व भज् pos=v,p=2,n=s,l=lot
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
अपरम् अपर pos=n,g=m,c=2,n=s
मद् मद् pos=n,comp=y
काङ्क्षिणी काङ्क्षिन् pos=a,g=f,c=1,n=s
मा मा pos=i
स्म स्म pos=i
भूः भू pos=v,p=2,n=s,l=lun_unaug
भोगेषु भोग pos=n,g=m,c=7,n=p
स्पृहयालवस् स्पृहयालु pos=a,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
वशे वश pos=n,g=m,c=7,n=s
का pos=n,g=f,c=1,n=s
निःस्पृहाणाम् निःस्पृह pos=a,g=m,c=6,n=p
असि अस् pos=v,p=2,n=s,l=lat
सद्यः सद्यस् pos=i
सीव् सीव् pos=va,comp=y,f=part
पलाश पलाश pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
पुटिका पुटिका pos=n,comp=y
पात्रैः पात्र pos=n,g=n,c=3,n=p
पवित्रीकृतैः पवित्रीकृ pos=va,g=n,c=3,n=p,f=part
भिक्षा भिक्षा pos=n,comp=y
वस्तुभिः वस्तु pos=n,g=n,c=3,n=p
एव एव pos=i
सम्प्रति सम्प्रति pos=i
वयम् मद् pos=n,g=,c=1,n=p
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
समीहामहे समीह् pos=v,p=1,n=p,l=lat